पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- प्रसिद्धिभेव प्रपञ्चयति--कथमित्यादिना। आध्वर्यवहौत्रौद्गात्रसमाहारस्य दर्शपूर्ण- मासादिष्वसंभवादग्निष्टोमादिषु च संभवात्तत्रितयसमाहाराल्लिङ्गादोंकारेण प्रवर्तमानं त्रयीवि. हितं कर्म सोमयाग इति प्रतिभातीत्याह-लिङ्गाचेति । स्रवत्यनोंकृतं कर्मेति न्यायादोंकारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह--तचेति । कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽऽह-परमात्मति। तस्य तत्प्रतीकवे किं स्यादिति चेत्तदाह-तदपचितिरिति । ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्रतीकत्वादक्ष- रस्यापि तेनाऽऽराधनं स्यात् । न चेश्वरस्तेनाऽऽराध्यत इति प्रमाणमस्ति तत्राऽऽह- स्वकर्मणति । वर्णाश्रमविहितेन कर्मणेश्वरं प्रसाद्य तत्प्रसादवशात्तत्फलं कर्ता प्रामोतीति भगवतोक्तवादीश्वरपूजार्थ कर्मेति गम्यते। तथा च तत्प्रतीकत्वादोंकारस्य तत्पूजार्थ कर्मेति युक्तमित्यर्थः । वैदिकं कर्माक्षरपूजार्थमित्यक्षरं स्तुत्वा विधान्तरेण स्तौति-किंचेति । यजमानादीत्यादिपदेन पत्नी गृह्यते । प्राणैस्त्रयीविहितं कर्म वर्तत इति संबन्धः । स्तुत्यन्तरमाह-तथेति । यथाऽक्षरविकारैर्यजमानादिप्राणैदिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः । कथमत्विगादिप्राणानां हविषश्चाक्षरविकारत्वमत आह-- यागेति । आदिशब्दोऽनुक्तवैदिककर्मसंग्रहार्थः । “ तस्मादोमित्युदाहृत्य " इत्यादि- स्मृतेरित्यर्थः । अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः" इति स्मृतिमाश्रित्याऽऽह--तच्चेति । वृष्टयादीत्यादिशब्देनान्नस्य प्रजानां चोत्पत्युप- करणं सर्वमुच्यते । तथाऽपि कथमेतस्यैवाक्षरस्य महिम्नेत्यादि तत्राऽऽह-माणैरिति ॥९॥ तेनोभो कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेवं विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेत- स्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ १. सिद्धल । २. रणे । ३ल.ग. ञ, में