पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[१ प्रथमाध्याये-
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये- तथा द्वैतविषयानताभिसंधस्य बन्धनं तस्करस्थेव तप्तपरशुग्रहणे बन्धदाह- भावः संसारदुःख प्राप्तिश्चेत्युक्वाऽद्वैतात्मसत्याभिसंधस्यातस्करस्येव तप्तपरशुग्र- हणे बन्धदाहाभावः संसारदुःखनिवृत्तिमक्षिश्चेति । अत एव न कर्मसहभाव्यद्वै- तात्मदर्शनम् । भेदनिष्ठानां कर्मिणां पुरुषार्थों निरतिशयो न सिध्यति । अद्वैतनिष्ठान तु कर्म स्यजता पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति-तथेत्यादिना । द्वैतमेव विषयस्तस्मि- न्वाचारम्भणेश्रुतेरनतेऽभिसंधा यस्याभिसंधा सत्यत्वाभिमानस्तस्य बन्धनं परमानन्दस्याऽऽधि- र्भावरहित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतस्तस्करस्य नाहं तस्करोऽस्मीति मिथ्यैवाभिमन्यमानस्य परिशोधनार्थ तप्तपरशोहणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैताभिनिवेशवतोऽपीति प्रथममुक्त्वा वस्तुतोऽतस्करस्य परैरारोपिततस्करत्वस्य परि- शुशुत्सया तप्तपरशुग्रहणे दाहाद्यभाववद्वैताभावोपलक्षिते प्रत्यगात्मनि परमार्थसत्येऽभिमान- वतो द्वैताञ्च व्यावृत्तचित्तस्यानर्थवंसो निरतिशयानन्दाविर्भावश्चेति यथोक्तार्थानुरोधेनाप्रे श्रुतिर्वक्ष्यतीति योजना। केवलमात्मज्ञानं कैवल्यहेतुस्तसिद्ध्यर्थमुपनिषदारम्भ इति स्वपक्षो दर्शितः । स्वयथ्यास्तु कर्भसमुच्चितमात्मनानं मोक्षसाधनं तादर्थेनोपनिषदारम्भ इत्याहुस्तान्प्रत्याह--अत एवेति। यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया तद्यथे. हेत्यादिश्रुत्या कर्मफलस्यानित्यत्वावगमाद्ब्रह्मविदाप्नोति परमित्यादिश्रुत्या च ज्ञानफलस्य नित्यत्वसिद्धानकर्मणोविरुद्धफलत्वाध्यवसायादद्वैतस्याऽऽत्मनो दर्शनं नैव कर्मणा सह भवि- तमुत्सहते । न हि विरुद्धयोस्तमःप्रकाशयोः समुच्चयः संगच्छते । तन्न समुचितज्ञानार्थत्वे. नोपनिषदारम्भ इत्यर्थः । क्रियाकारकफलभेदोपमर्देन सदेकमेवाद्वितीयमात्मैवेदं सर्वमित्येवमा- दिवाक्यजनितस्य बाधकमत्ययानुपपत्तेः। कर्मविधिप्रत्यय इति चेत् । न। कर्तृ. भोक्तस्वभावविज्ञानवतस्तज्जनितकमफलरागद्वेषादिदोषवतश्च कर्मविधानात् । आधगतसकलवेदार्थस्य कर्मविधानादद्वैतज्ञानवतोऽपि कर्मेति चेत्। न। कर्मा- धिकृतविषयस्य कर्तभोक्त्रादिज्ञानस्य. स्वाभाविकस्य सदेकमेवाद्वितीयमात्मैवेदं सर्वमित्यनेनोपमर्दितत्वात् । तस्मादविद्यादिदोषवत एव कर्माणि विधीयन्ते । नाद्वैतज्ञानवतः । अत एव हि वक्ष्यति-" सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमोति" इति । किं चाद्वैतात्मज्ञानं स्वसाध्यसिद्धयर्थं वा कर्मापेक्षते स्वबाधकविधननार्थं वा । नाss. द्यः । तस्यासाध्यफलत्वादिति मन्वानो द्वितीयं प्रत्याह-क्रियेति । वाक्यजनित- क. तिचे । २ क. 'णमिति श्रु" । ३ क. °मन्वान । ४ ख. दाहे ब । ५ क. ग. हीतत। ६ क. भावि भ°। ७ क. “फ रा ८ क, 'थं क' |