पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः खण्डः १]
छान्दोग्योपनिषत् ।
नावृत्तेरेतत्कल्पविषयत्वाकल्पान्तरेऽप्यनावृत्तावपि विशेषणानर्थक्यात् । नापि पितृयाणपथि

निरतिशयपुरुषार्थसिद्धिः। एतमेवाव्ववानं पुनर्निवर्तन्ते"। " अन्ययाऽऽवर्तते पुनः॥2 इति चन्द्रस्थलस्खलनावगमात् । तस्मान्न कर्मवशादात्यन्तिकपुरुषार्थप्राप्तिरित्यर्थः । एवमनूद्य कर्मफलं फलितं संबन्धमाह- इत्यत इति । उक्तरीत्या कर्म यतो न निरतिशयरुषा- र्थहेतुस्त: ससाधनाकर्मणस्तत्फलाच्च विरक्तस्य निरतिशयपुरुषार्थं काङ्क्षतस्तत्साधनं केव- लमात्मज्ञानं संसारान्तर्भूतपूर्वोक्तगतित्रयहेतुकर्मतद्धेतुनिराकरणेन वक्तव्यमित्यभिप्रायेणोप निषदेषाऽऽरभ्यते । न हि कर्मानुष्ठानात्पुमार्थोनिरतिशयो लभ्यते। तस्य तथेहेत्यादौ । क्षयिष्णुफलत्वश्रुतेः । तथा चेश्वरार्पणबुद्धयाऽनुष्ठितशुभकर्मवशानुपजातशुद्धबुद्धे- र्विरक्तस्य मुमुक्षोर्मोक्षसाधनज्ञानार्थोऽयमुपनिषदारम्भ इति हेतुहेतुमद्भावः संबन्ध इत्यर्थः । न चाद्वैतात्मविज्ञानादन्यत्राऽऽत्यन्तिकी निःश्रेयसप्राप्तिः। वक्ष्यति हि- " अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति । विपर्यये च स स्वराड्भवति" इति । ननु---- " मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया:" ॥ इति वृद्धैरुक्तत्वात्काम्यनिषिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमुक्षोर्वर्तमानदेहपाते पुनर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं तादर्थ्येनोपनिषदारभ्यते तत्राऽऽह--न चेति । न हि त्वदुत्प्रेक्षितो मोक्षोपायो विना प्रमाणं प्रकल्प्यते । न च पौरुषेयं वाक्यं मूलप्रमाणमन्तरेण प्रमाणम् । न चात्र श्रुति. स्मृती प्रत्यक्षादि वा मूलमालोच्यते । संभवति च यथावर्णितचरितस्यापि कर्मशेषवशाद्देहान्तरं न चैकभविकः कर्माशयः । तद्य इह रमणीयचरणास्ततः शेषेणेत्यादिश्रुतिस्मृतिवि- रोधात्तस्मादात्मज्ञानादेव मुक्तिरिति भावः । अद्वैतात्मज्ञानविधुराणां भेदज्ञानभाजां कर्मा- नुष्ठायिनां क्षय्यफलशालित्वे वाक्यशेषं प्रमाणयति-वक्ष्यति हीति । अद्वैतात्मोपदे- शानन्तर्यमथशब्दार्थः । ये पुनरनुपासितगुरवस्तदुपदेशशून्या यथामति यथोक्तादद्वैतादन्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मानुतिष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः । अद्वैतात्मज्ञानादात्यन्तिकपुरुषार्थसिद्धिरित्यत्रापि वाक्यशेषमनुकूलयति-विपर्यये चेति । चकाराक्रियापदमनुकृष्यते । स हि विद्वान्विद्यया निरस्ताविद्यादिमलः स्वपरिज्ञानात्स्वयमेव परमात्मा भवति । भेदप्रतिपत्तिहेतोरुच्छिन्नत्वादित्यर्थः । . १ ख. ग. छ. °याणे प। २ ख. ग. छ.र्थोऽनति। ३ ख. ग. छ. 'विफ। ४ ख. छ.'शुद्धक। ५ "जिहीर्षया"। ६ क ग. परात्मा ।