पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[१ प्रथमाध्याये-
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-

   तत्र संबन्धः । समस्तं कर्माधिगतं प्रा1णादिदेवताविज्ञानसहितमर्चिरादिमा-

र्गेण ब्रह्म2 प्रतिपत्तिकारणम् । केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकार- णम् । स्वभावप्रवृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टाऽधोगतिरुक्ता। ___ ननु कर्मविधिशेषत्वादुपनिषदस्तद्व्याख्यानेनैव कृतव्याख्यानत्वात्पिष्टपिष्टिप्रसङ्गात्कृतं तद्भाष्येणेत्याशङ्कय -शेषशेषित्वे प्रमाणाभावान्मैवमित्यभिप्रेत्य पूर्वोत्तरकाण्डयोर्नियतपूर्वापर- भावप्रयुक्तं संबन्धं प्रतिजानीते-तत्रेति । तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषद: कर्म- काण्डेन सह संबन्धोऽभिधीयत इत्यर्थः । कोऽसावित्यपेक्षायां तदभिधित्सया कर्मकाण्डा- र्थम3नुवदति-समस्तमिति । विहितं प्रतिषिद्धं च कर्म पूर्वस्मिन्काण्डे प्रतिपन्नमित्यर्थः । तत्र4 हि विहितं समुच्चितमसमुच्चितं चेति द्विविध5मित्यङ्गीकृत्य समुच्चितस्य फलमनुवदति- प्राणा6दीति । प्राणश्चाग्निश्वेत्याद्या देवता तद्विज्ञानं तदुपासनं तेन समुचितममिहोत्रादि कर्मार्चिराद्युपलक्षिते देवयानेन पथा कार्यब्रह्मप्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्तव्य- त्वाभावात्कार्यस्वैव गन्तव्यताया बादर्यधिकरणे राद्धान्तितत्वात् । तस्मान्न समुचित विहितं कर्म परमपुरुषार्थहेतुरित्यर्थः । तस्यैवासमुच्चितस्य फलमाह-केवलं चेति । विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह--स्वभावेत्ति । स्वभावेन शास्त्रापेक्षामन्तरेण प्रकृति.- वशादेव प्रवृत्ता यथेष्टचेष्टारसिकास्तेषां कर्मज्ञानाभावाद्देवयाने पितृयाणे च पध्यनधिकृतो.7 नामधोगतिस्तिर्यगवस्था क्षुद्रजन्तुलक्षणाऽपुनरावृत्ति8दुर्लभा* वाक्येन । न चोभयो9र्मागयोरन्यतरस्मिन्नपि मार्ग आत्यन्तिकी पुरुषार्थसिद्धिरित्यतः कर्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्दैन वक्तव्यमित्युपनिषदा- रभ्यते । अन्यतर10स्मिन्त्राऽधिकृतानां 11परमः पुरुषार्थः सेत्स्यति । " शुक्लकृष्णे गती ह्येते जगतः शाश्वत मते " इति स्मृत्या तयोर्नित्य फलत्वप्रतिपत्तेरत आह--न चोभयोरित्यादि 12। ननु मार्गद्वयभ्रष्टानां पुरीषार्थाभावेऽपि द्वयोः पथोरन्यतरस्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निरतिशयपुरूषार्थसिद्धिः । " इमं मानवमावर्तं नाऽऽवर्तन्ते " " तेषामिह न पुनरावृत्तिः ।' इत्यत्रेममिहेति विशेषणादेकया यात्यनावृत्तिमिति स्मृताव-

  • अर्थतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राप्यस्कृदावर्तीनि भूतानि भवन्ति जायस्व म्रिय

स्वेत्येतत्तृतीयं स्थानमित्यनेन वाक्येनोक्तेत्यवयः।

क. ख. “णान्यादि । २ क ग. घ. च. 'ह्यलोकम। ३. छ. 'मुद्रवति । ४ ख. ग. छ. व वि । ५ क. धभङ्गी । ६ क. °ण ग्न्यादी । ७ ख. ग. छ. °तानां ग । ८ क. छ. तिर्दुर्ल । 9 क. ग. योरपि मार्ग । १0 . क 'स्मिन्नेनाधि' । ११ क. रमपु' । १२ क. दिना । न।