पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७ नेष्वहःसु ब्रह्मसाम्रोनिवर्तस्यैकत्वेऽपि प्रगाथाः प्रत्यहं भेदेन प्रयुज्यन्ते । तत्र के ते स्तोत्रीयाः प्रगाथा ? इत्याकाङ्कायाम् “गञ्चसु मा:सु बार्हताः प्रगाथा आप्यन्ते । तेष्वा तेषु छन्दसी संयुज्यैतव्यम् । चतुरुत्तरैरेव छन्दोभिरेतव्यम् । तदाहुरनवकृप्तानि वा एतानि छन्दांसि माध्यन्दिने, बृहत्या चैव त्रिष्टुभा चैतव्यम्’-इत्येवं ताण्डिश्रुतौ दाशतयीसमान्नातेनाष्ट्राविंशतिशतप्रमितप्रगाथतृचसमुदायेन तावदहःसु प्रगाथलामे तद् तिरिक्तषु त्रयोदशखहःसु प्रगाथलाभार्थ त्रयः पक्षा विधीयन्ते । ते चैते प्रगाथा न चान्तरेण शास्त्रमध्यवसितुं शक्याः, नापि वा तमन्तरेण प्रगाथप्रयोगं ज्योतिष्टोम पर्याप्तोति; एवमितरत्राऽप्येकान्ततश्छन्दोविज्ञानमपेक्ष्यते प्रतियज्ञम् । अत एव च “यो ह वा अविदितार्षेयछन्दोदैवतब्राह्मणेन मत्रेण याजयति वाऽध्यापयति वा स्थाणु वच्छंति गर्त वा पद्यते वा म्रियते पापीयान् भनति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात्” (छं.त्रा ३॥७५) इति श्रूयते । मन्त्राणा दैवतं छन्दो निरुक्त ब्राह्मणान् ऋषीन् । कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥ १ ॥ अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च योध्यापयेजपेद्वापि पापीयान् जायते तु सः ।। २ ।। ऋषिच्छन्दोदैवतानि ब्राह्मणार्थ खराद्यपि । अविदित्वा प्रयुञ्जानो मश्रकण्टक उच्यते ॥ ३ ॥' इति स्मर्यते च । भगवान् कात्यायनोऽप्याह–“छन्दांसि गायत्र्यादीनि एतान्यांवे दित्वा योऽधीतेऽनुबूते जपति जुहोति यजति याजयते तस्य ब्रह्म निर्वीर्य मान्दयाम्' भवति । अथान्तरा वगर्त वापद्यते स्थाणु वच्छंति प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत्-अथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपिन्वा हुन्वेष्टा तत्फलेन युज्यते” इति । तस्मान् सन्येव भूयांसि छन्दःशात्रस्य प्रयोजनानि तद्रिज्ञानमन्तरेण चायं यज्ञवेदो निवर्यो यातयामो भवति, तस्मादस्ति यज्ञवेदोपकारकत्वं यद्यपि दृष्टान्तमुद्रया नाट्यनृलवाद्यगेयवेदानामुत्तरोत्तरम्य पूर्ववेदोपकारक-मा- ख्यायते, तावतापि छन्दोवेदस्यैव सर्वोपकारकन्त्रमाख्यातं भवति; गेयवेदस्य छन्दो वेदानतिरिक्तन्वान् । नस्मादन्ति वाद्यादिवेदोपकारकत्वं छन्दःशास्त्रस्य !-- अथ किं बहुना? येयं शिल्पविद्या लोके नितान्तफलोपधायकतया प्रतिपद्यते, या नूनमर्थच्छन्दोविद्योपजीव्या भवति-अर्थच्छन्दोविद्यानतिरितैव वा । ‘शिल्पं छन्द’ इति श्रुतेः । मर्व चेदं सचराचरं जगन्मण्डलं दृश्यते विश्वकर्मणः शिल्यम् । तथा प्राणिजा नैरपि क्रियमाणं तत्तन्कर्म दृश्यते शिल्पमेवानुलम्बितम् । सर्वे व विद्यांनेवन्धा रच नावैचित्र्यात्मकेन केनापि शिल्पेनैवानुगता भवन्ति । तस्माच्छिप्पविद्यान्मनाप्यस्य सर्ववेदोपकारकत्वं छन्दःशास्त्रस्य ॥ १ ॥