पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ प्राधान्याद् विभ्रः प्रागेव छन्दोनियताक्षरे यतिमासादयेदित्यर्थमपेक्षमाणस्य श्रोतुरमनोरञ्जनं स्यात् ॥ १ ॥ अथार्थबुबोधयिषयैव प्रवर्तमानस्तु नूनमर्थनुरोधेनैव छन्दोवृत्तं प्रयोजयन्नार्थिक यतिप्राधान्याद् विभक्तयन्ते यतिमासादयेदिति छन्दोयाथात्म्यमपेक्षमाणस्य श्रोतुरमनो रञ्जनं स्यात् ॥ २ ॥ सेयमनवकृप्तिः । अतः स्थाने कृतं विभक्तिकृतपदे यतिप्रतिषेध शास्रमिति दिक् ॥ इति यतिदोषवाद अथ पञ्चाङ्गतावादः ननु यदि सर्वस्यैवार्थजातस्यैकान्ततश्छन्दोबद्धत्वं खीक्रियते, तत्तहिं नूनमिदं छन्दो ऽपि छन्दोबद्धं स्यात्; स तर्हि पद्यच्छन्दोवेदः किमिति पञ्चाङ्ग एवोच्यते? न च्छन्दसा षडङ्गः प्रतिविधीयते? । अथ-यदि नेददं छन्दश्छन्दोबद्धमिति मन्यसे, तत्तर्हि छन्दस सर्वानुगतत्वप्रतिज्ञाहानिरिति चेत्,-सल्यम् । यथेदं ब्रह्मणो व्यापकत्वं मन्यन्ते तथेदं द्रष्ट व्यम् । यदि नामास्य ब्रह्मणो ब्रह्मवृत्तित्वमाख्यायते तत्तर्हि द्वैतं भवति । अद्वितीयं तु ब्रह्मल्याचक्षते ब्रह्मविदः । यदि तु ब्रह्मवृत्तित्वं नास्तीलभिमन्यते, तत्तर्हि तस्य व्यापकत्वप्रतिज्ञाहानिः प्रसज्यते । अथ यद्यनवस्थादोषात् तेजःशब्दप्रमाणादि वदस्य ब्रह्मणः खरूपेणावभासमानस्य नेतरापेक्षेत्युच्यते, तत्तहिं तुल्यं छन्दोवेदे ऽपि । खरूपेणैव छन्दसां छन्दोबद्धत्वादितरच्छन्दोऽनपेक्षणात् । परे त्वाहुः-भवति नूनं गलध्वपरिच्छितिर्नाम छन्दसां छन्दो लिप्यध्वपरिच्छित्तश्छन्दोलिपिच्छन्दस्त्व वत् चाध्वपरिच्छित्तिः ग्रत्ययो भवति । यया परिच्छिन्नानामनेकेषामायतन । सा साम्येन प्रवर्तनं दृश्यते । आयतनमेव तज्जातीयेतरायतनसाम्यापेक्षया अध्वपरिच्छि त्तिरित्युच्यते । अवश्यं हि सर्वस्याप्येतस्य वस्तुजातस्य खरूपसंपादनाद्यन्योद्देशेन प्रवर्तमानस्य कश्चिदध्वा भवति । तेनाध्वना प्रक्रममाणस्य सौकर्य सौन्दर्य चानुभूयते । खमार्गात् प्रच्यवमानस्य च तस्य कृिष्टत्वं कुरूपत्वं च जायते । तस्मादयमध्वयो गश्छन्दसां छन्दः । नन्वेवं तर्हि पद्यच्छन्दोवेदस्य षङ्किरजैर्भवितव्यमिति चेत्,-सत्यम् । अस्ति षडङ्गो वेदत्वात् । वेदस्य षडङ्गत्वनियमात् । खल्पविषयत्वात्त नायमध्वयोगः पार्थक्येनेह निरूपित इति द्रष्टव्यम् ॥ इति छन्दोवेदपञ्चाङ्गतावादः । अथ छन्दोविज्ञानसार्थकतावादः । इदं तावच्छन्दोविज्ञानशास्त्रमनारम्भणीयमनर्थकत्वातू । चतुरर्थ हेि शास्त्रमा रभ्यते-अविज्ञातार्वज्ञापनार्थ, हेयार्थनिरसनाथै सामथ्र्यम्-अशेषोद्रेकार्थम्, इतस्वेदोप कारार्थ चेति । तत्रेदं छन्दोविज्ञानशाख नैषामन्यतमं कमप्यर्थ संसाधयितुमीष्ट