पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छन्दसिकाः । स्थाननियमश्व वर्णमात्रान्यतरनिबन्धनो संभवति । विभक्तयादीनां वैयाकरणपदार्थत्वेन छन्दःशरीरे तदप्रवेशेन च छन्द खरूपसिद्धेौ तदनपेक्षणान् । उन्नविंशलखक्षरपादे शार्दूलविकडितद्वादशाक्षरस्य यति मत्वमन्वाख्यायते । तदिदं यदि त्रयोदशाक्षरे कृनं स्यात्तत्तर्हि युक्तो वतुं दोषः । द्वादशाक्षरे तु कृतया यत्या छन्दःखरूपसंपादने विभक्तिपूर्वत्वमप्रयोजकमग्रन्ि बन्धकं चेति । न च दोषः संभवति । तत्र विभक्तिः प्राग् नापि व्यु ोऽयं दोष पदयोः खप्रयोज्यपदार्थोपस्वित्यवहितोत्तरजायमानशाब्दबोधे यद्यप्याकाङ्कायोग्यतेल्या दिवृदासतेः कारणत्वमन्वाख्यायते यतिश्वासत्तिप्रतिबन्धिनी. तथापि नावनः शाब्दबोधप्रतिबन्धः स्यात्, न छन्दसः खरूपहानिः । तत्र यतेरिष्टत्वात् । अथवा नेयं यतिरासत्तिविरोधिनी, एतावद्विलम्बेऽप्यर्थावबोधप्रतिवाधादर्शनात् । इतरथा कुत्रापि यतिमता वृत्तेनार्थावगतिर्न स्यादासत्तिप्रतिबन्धात् अत एव परमसन्निकषत्मकसं हितानिबन्धनं सन्धिकार्यमपि न विरुद्धद्यते । तस्मादस्येव नामविभक्तयान्मकयो उदयोर्यत्यवरुद्धयोरप्यासतिरर्थबोधोपयोगिनीति न व्युत्पतिशास्त्रविरोध । अथाप्रयु छादोषदुष्टत्वं स्यादिति चेत्तदपि न । यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भ ऽहङ्कारोऽभूत् खकशिखिजलोव्यैस्ततः संहतेश्च । ब्रह्माण्डं यजठरगमहीपृष्ठनिष्ठाद् विरचे र्विश्व शश्वजयति परमं ब्रह्म तत्तत्वमाद्यम् । १ इत्यादिष्वभियुक्तकर्तृकप्रयुक्तिविषयतादर्शनात् । तस्माद्विभक्तिकृतपदे यतिप्रतिषेधो निमूल इति चेत्, अत्रोच्यते इह हेि छन्दोवृत्तजाते मात्रावर्णान्यतरनियतस्थाने यतिः कर्तव्या इलेयको विधिः । यथा स्यात्तथा विभक्तिकृतपदं न प्रयोज्यमिल्यपरो विधिः । तत्र छन्दःखरूपं यद्यपि तत्तद्वर्णसमष्टरर्थ नापेक्षत इति पूर्वेणैव विधिना छन्दःसिद्धिः कृतार्थी भवति, तथापि सार्थकपदवि न्यासेन छन्दःखरूपं सम्पिपादयेिधून् प्रत्ययमपरो विधिरुपतिष्ठत यत्ववरुद्धं विभक्ति कृतपदं न प्रयोज्यमिति । अयं भावः-पदं द्विविधवं यतिकृतमर्थकृतं च । तद्भयवि. धमेवानवच्छिनवर्णपरम्परासापेक्षमिलयवश्यं यतियोग्यस्वाने विभक्तिकृतपदप्रयोगे विप्रतिषेधः प्राप्रेोति । अर्थानुरोधिनी हि पदयतिर्विभक्तयन्ते स्थानं लभत इत्यवश्यं विभक्तः प्रागनवच दमपेक्षते । अथ छन्दोऽनुरोधिनी पदयतिस्तत्र विभक्तः प्रागेव स्थानं लभत इत्यवश्यं विभक्तिविभक्तिमतोरनवच्छेदं प्रतिषेधति । तत्रेदं द्वैधमिव स्यात्-अर्थगतिमन्तः विषया प्रवर्तमानोऽवश्यं छ न