सामग्री पर जाएँ

पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ समुचयो वा (३) समिनिनिपातस्य उनत्तिवृत्तन समुचयो वेति (४) । संज्ञाशब्दोऽयमस्व ण्डवत् प्रतिपन्नः । अभिप्रायविशेषातु तं तं पदविभागमन्वाचक्षते नैरुक्ताः । एवमिहापि यधायजातौ षष्ठडकारादिभूतलकारादुत्तरस्य कलात्रयस्य नखान्यतररूपतयाभिनेत व्यस्य निपातरूपत्वाद्विभिन्नपदत्वमेवाधिगम्यतेऽथाप्यखण्डवदुपचार (५) । एवमेवान्यः त्रान्यत्रापि द्रष्टव्यम् । अथ प्रकारान्तरेणायं समासो द्वेधा-पादखण्डः, पदखण्डश्ध । यत्र समासारम्भ कपदयोः पूर्वोत्तरपादत्वं तत्र पादखण्डः, अन्यत्र पदखण्डः । स चायं विवक्षाधीनः । तेन भक्षभक्षसमासस्य पादखण्डत्वेऽक्षरपङ्किः सम्पद्यते, पदखण्डत्वे तु स्यात् । तंत्र पादखण्डः समासान्तरेण गर्भितश्चागर्भितश्च भवति, पृदखण्डस्त्वगर्भित एव । अथ दिल्यविक-पाद्यन्यतमसनासे समस्तयोर्द्धयोः प्रयोगादेकः श्लोको भवति । तदिदं मन्दं मन्द'मित्यादिवत् द्विरुक्तिर्न समासः । अथ वैदिकानां तु समस्तैकदेस द्विरुक्तयापि छन्द:सिद्धिद्विर्वचनाभावेन समासाभावेन च । यथा त्रिपदा द्विपदा इति समासवादः । अथातः पदप्रतिपत्तौ जिज्ञासा समुपतिष्ठते-किं तावत् प्रस्तारसिद्धखरूपेषु पदत्वेनाभ्युपगतेषु द्वयोश्चतुर्णा वा सजातीयानां विज्ञातीयानां वा समवायेन छन्दः सिद्धिरस्ति ? किंवा प्रस्तारसिद्धखरूपे छन्दस्त्वेनाभ्युपगते विच्छेदविरतियत्यपेक्षं पदविशेवळ्यवम्थानमस्तीति । कुत एतत् ? उभयथा ह्यत्र प्राचां व्यवहारा उपलभ्यन्ते । लौकिकास्तावन्–विषमार्धसमसमत्वेनाभ्युपगतेषु वृत्तषु विजातीयानां सजातीयानां वा विरतिमत्पदानां द्विर्वाकेन चतुर्वाकेन वा छन्दः साध्यते, तत्तर्हि यतिमन्पदस्य षड्वा केनाष्टवाकेन वा कस्माच्छन्दःसिद्धिरपोह्यते ? यदि तूपदेशलाघवायाधिगमसौकयय वा विरतिमत्पदे यतिव्यवस्थांपेक्ष्यते, तत्तर्हि वरमस्मिन् छन्दस्येव विच्छेदविरतियति भेदानपेक्षं यतयः प्रकल्प्यन्तामलमर्धजरतीयाभ्युपगमेन । अथ वैदिकाः पुनश्चतुरुत्तराणि छन्दांस्यभ्युपगच्छन्तश्चतुर्विशत्यक्षरादिकाया वाच्यो गायत्रीत्वादिकमभिख्यापयन्तश्छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतिव्यवस्धया पदसिद्धिं मन्यन्ते । अन्तरेणापि तु यातिं पदव्यवस्थामास्थाय छन्दःखरूपसिद्धिं प्रति जानते । तत्रेयै विप्रतिपत ‘सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि