पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वादीनामिदानीं यावदसिद्या तत्त्वेन विभागासंभवादुष्णिगाद्यपेक्षया अल्पाक्षग्न्वस्य गायत्रीपदार्थतावच्छेदकत्वानुपपत्तश्च । नाप्यन्यः, उक्ताया देवीगायत्र्या वा गायत्री त्वसिद्धावप्यन्यासां गायत्रीत्वानापत्तः । तस्मान्नेदं गायत्रीसामान्यलक्षणमिति चेत् ; अस्तु तर्हि गायत्रीपदेन याज्ञिकानां प्रसिद्धिरेव गायत्रीत्वम्, नैवम्! ज्ञानयैव प्रसिद्धि पदार्थत्वाद् । गायत्रीपदप्रकारकज्ञानविशेष्यत्वमेव गायत्रीत्वमेतेनोक्तं भवति, तचा युक्तम्-गायत्रीपदनिष्टसंकेतसम्बन्धावच्छिन्नप्रकारतानिरूपितायाजिकज्ञानीयविशेष्यताव चच्छेदकत्वाप्रसिद्धौ तादृशविशेध्यताया उष्णिगादिष्वव्यावर्तमानतया तेषामपि सर्वेषां गायत्रीत्वातिप्रसक्तः । तस्माद् यदवच्छेदेन गायत्रीपदप्रसिद्धि सोऽतिरिक्तः कश्चन धर्मो वक्तव्य इति चेत् अस्तु तर्हि गायत्रीन्वमखण्डोपाधिः; नदवच्छेदेनैव गायत्रीपद प्रसिद्धिप्यास्तामिति चेत् तुच्छमेतत् । लोकप्रतीतपदार्थके हि विषये पदार्थतावच्छेदक स्याखण्डोपाधित्वेन कथंचिदभ्युपगमेऽपि साम्यधर्माणामन्दण्डोपाधिन्त्रस्वीकारन्याप्रामा णिकत्वात् । तस्मादसिद्धं खलु गायत्रीत्वमिति चेदुच्यते-चनुशिल्यक्षरावच्छिन्नन्वं गावत्रीत्वमिलेयेव सिद्धान्तः पक्षः । यस्तु निवृदुरिगादिषु दर्शितो व्यभिचारः स नावदयुक्तः । एकेनाक्षरेण द्वाभ्यां वा न्यूनाधिकताया गायत्रीविकृतिप्रयोजक्रतया न्मल्यामपि तस्यां विकृतौ प्रकृतिलक्षण व्याघातासंभवात् । नहि कस्यचिदन्धत्वदोषेण स्मृता प्राणिनश्चक्षुष्मत्वलक्षणं व्याहन्यते न वा लालच्छेदाद्विषाणभ्रंशाद्वा सास्रालालककुदयुरविषाणिन्वरूपं गोलक्षणमलक्षणं भवति । तस्मात्सिद्धं चतुर्विंशत्यक्षरावच्छिन्नन्वमेव गायत्रीत्वम् । अथ यदपि प्राजापल्या सुरीदैव्यादिषु व्यभिचारदशेनान्नदं ल६ तासामप्यार्षीविकृतिरूपत्वानतिरेकात् । तथा हि यद् गायत्रे अधिगायत्रमाहितं त्रैष्ट-द्वा त्रैष्टुभं निरनक्षत १ । (ऋ.सं. २३) इति मत्रान्नानादेकस्मिन् छन्दोन्तराधानप्रतिपत्त्या तस्यामेवार्षीगायत्र्यां चतुर्विशल्य च्छिन्नायामेकाक्षरावच्छेदेन दैवीत्वं, पञ्चदशाक्षरावच्छेदेनामुरीत्वम्, अ =छेदेन प्राजापल्यात्वमित्येवं विभागभेदात्रैविध्योपचारः । गायत्रीविभागजत्वाचैतासु गाय त्रीशव्दो भाक्तः । यद्यपि कौषीतकश्रुतौ मन्त्रोऽयमन्यथा व्याख्यायते यथा ‘यद् गायत्र अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगजबगल्याहत पदं य इन् ताद्वेदुस्त अमृतत्वमानशुः ॥” इति अथो यदिमा देवता एषु लोकेष्वध्यूढाः,—गायत्रेऽस्मिलोके गायत्रोऽयमन्निरव्यूढः । त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । जागतेऽमुष्मिंल्लोके जागतोऽसावादित्योऽ ध्यूढः”–इति । न चैतावता छन्दसि छन्दोऽन्तरसत्ता मन्त्रार्थ उपलभ्यः, नथापि स्वल्पेन यत्रनाधिकमर्थमुपदेष्टुमिवाभिवर्तमानानां महर्षीणां बहुविषया हि मन्त्रार्थवादा भवन्ति । तदतो नाभिगम्यमानं प्रमाणान्तरसिद्धमर्थ सर्वथा प्रत्याख्यातुमवकल्पते । ४ पद ५५ य