पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ चतुर्विंशत्यक्षरानवच्छिन्नतया गायत्रीत्वानापतेः । ननु–‘न्यूनाधिकेनैकेन निवृदुरिजौ sाभ्यां विराटखराजौ,' 'पादपूरणार्थ तु प्रसंयोगैकाक्षरीभावान् व्यूहेदिति ( सर्वा परि.) सूत्रोपदिष्टया व्यूहमर्यादया चतुर्विंशत्यक्षरकत्वं सेत्स्यतीति चेत्-सत्यम्; एवमपि प्राजापत्यासुरीदैव्यादीनां गायत्रीविशेषाणां गायत्रीत्वासिद्धिस्तदवस्था स्यात् । तत्र व्यूह मर्यादयापि चतुर्विंशत्यक्षरावच्छिन्नत्वासिद्धेः । न च-चतुर्विंशत्यक्षरावच्छिन्नत्वमाषा यत्रीछन्दस्त्वमष्टाक्षरावच्छिन्नत्वं प्राजापल्यागायत्रीत्वं पञ्चदशाक्षरावच्छिन्नत्वमासुरी गायत्रीत्वमित्येवमष्टानामपि गायत्रीविधानां प्रातिखिकलक्षणानि भविष्यन्तीति वाच्यम् चतुर्विंशत्यक्षरावच्छिन्नत्वादीनां विभाजकतावच्छेदकत्वसिद्धावपि विभाज्यतावच्छेदकस्य गायत्रीत्वस्याद्य यावदसिद्या तासामष्टानामपि विधानां गायत्रीविभाजकत्वासिद्धः । छन्दस्त्वात्मकविभाज्यतावच्छेदकप्रसिद्धावपि विभाजकतावच्छेदकधर्माप्रसिद्या सप्त च्छन्दांसि-इति सर्ववेदे प्रसिद्धविभागानुपपत्तेश्च । तस्मादवश्यं गायत्रीसामान्यलक्षणं किञ्चिदपेक्षणीयमिति चेत्-अस्त्वेवम् । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वं गायत्रीत्वमिलेवं तावदभिसंधास्यामः । गायत्रीपुरोगमानि हेि चतुरुतराणि सर्वाणि च्छन्दांसि भवन्ति । तत्र गायत्र्याः सर्वच्छन्दोऽपेक्षया सप्ताक्षरघटितत्वात्कनिष्ठत्वं शक्यं वत्कुम् । नन्वेवं सत्यनादिष्टछन्दसामुक्तायुक्तामध्याप्रतिष्ठासुप्रतिष्ठानां सर्वच्छन्दोऽपेक्षया खल्याक्षरत्वाद् गायत्रीत्वमतिप्रसज्येत! । वेदे गायत्र्यादीनामेव छन्दसां सुप्रसिद्धेस्तेषां छन्दस्त्वमेव नास्तीति तु नापाद्यम् । ताण्ड्यश्रुतैौ–“चतुरुत्तरैरेव छन्दोभिरेतव्य'मित्युक्त्वा-“एकां Tायत्रीमेकाहमुपेयुरेकामुष्णिहमेकाहमेकामनुष्टुभमेकाहं-बृहत्या पञ्चमास ईयुः पङ्कि मेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः-श्वो विषुवान् भवितेति जगतीमुपेयु इति सूत्रेण गायत्र्यादिभिरहःसाधनोक्तया गायत्र्या अपि चतुरुत्तरच्छन्दस्त्वप्रति पादनाशिल्यक्षुरायाः सुप्रतिष्ठायाश्छन्दस्त्वानभ्युपगमे गायत्र्याश्चतुरुत्तरत्वानुपपत्तः । तथा च तेष्वतिप्रसक्तर्नेदं गायत्रीलक्षणं साधीय इति चेत्-न। तत्र गायत्रीत्वस्येष्टापतेः । तदुक्तं वेदार्थदीपिकायाम्-- “उक्तादिपञ्चकं कैश्चिद् गायत्रीयेव कथ्यते’ इति । तथा चेदं लक्षणं निर्देषमिति चेत् न । सर्वच्छन्दःकनिष्ठच्छन्दस्त्वमित्यत्र हि कान्येतानि सर्वाणि छन्दांसि ? किं तावद् गायत्र्युष्णिगनुष्टबादीनि सप्तच्छन्दांसि सप्तातिच्छन्दांसि, सप्तकृतिच्छन्दांसीलेतावन्ति सर्वाणि च्छन्दसि विवक्षितानि ? आहो खिद् गायत्रीत्वजगतीत्वादिकमनपेक्ष्यैव मात्राक्षरसंख्यया नियता वाचो विवक्ष्यन्ते ? तत्र न तावदाद्यः, आषगायत्र्यपेक्षया प्राजापत्योणिहः खल्पाक्षरतया गायत्रः त्वापत्तः । तदपेक्षयाधिकाक्षराया आर्षगायत्र्या गायत्रीत्वानापत्तश्च । न चाषभ्य उरिणगादिभ्यः खल्पाक्षराया आधींगायत्रीत्वं प्राजापल्योष्णिगाद्यपेक्षया. चाल्पाक्षरायाः प्राजापलागायत्रीत्वमित्येवं वक्ष्याम इति वाच्यम् । आमुरीभ्य उष्णिगादिभ्योऽनल्पा राया एवासुरीगायत्रीत्वप्रसिद्वद्या तावताऽप्यनिर्वाहात् । गायत्रीत्वोष्णिक्त्वजगतः