पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति । एवं ससैव कृतिच्छन्दांसि-कृतिः, प्रकृति आकृतिः, विकृतिः, संकृतिः, अभिकृतिः, उत्कृतिश्चेति मेदात् । अथात ऊध्र्व प्रचेि तिच्छन्दस्तञ्च संख्यायते । नन्वेतदृहच्छन्दोऽभिप्रायेण ससैव छन्दांसि भवन्तीति भूय श्रूयते, तत्कथमेतावान् प्रपञ्चश्छन्दसामाख्यायते ? उच्यते-षोडशीप्रक्रमे ‘छन्दसां यो रसोऽत्यक्षरत्, सोऽतिच्छन्दसमभ्यक्षरत् । तदतिच्छन्दसोऽतिच्छन्द स्त्वम् । सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोडशी' इत्याम्रायते । तत्र छन् सां रसश्चतुरक्षररूपः । ‘चतुरक्षराण्येव छन्दांस्यासन् ।' इति छन्दोव्यूहनश्रुत्युक्तः । तथा हि-छन्दोव्यूहने तावत् चतुरक्षरा गायत्री त्रिष्टुब् जगती च । तत्र जगल्यास्त्री प्यक्षराणि, त्रिष्टुभ एकमक्षरं च समादाय गायत्री तावदष्टाक्षरा क्रियते । इत्थं कृते अष्टाक्षरा गायत्री, त्र्यक्षरा त्रिष्टुप्, एकाक्षरा जगती सिद्धा । अथैवंरूपा गायत्री खयं संयुज्य विधुर्भ संपादयति सा त्रिष्टुबेकादशाक्षरा संपद्यते । एवं संपन्ना च त्रिष्टुप खयं संयुज्य जगतीं संपादयति सा जगती द्वादशाक्षरा संपद्यते । गायत्री, त्रिष्टुप्, जगती चेति त्रीण्येव छन्दांसि सर्वाणि छन्दांसि भवन्ति गायत्र्युष्णिगनुष्टुब्बृहती पङ्कित्रिष्टुब्जगत्याख्यानि । तत्रानुष्टुप्पङ्गी, उष्णिक्त्रष्टुभैौ, गायत्रीजगत्यौ, चेल्येवं द्वे द्वे संयुज्य द्वे द्वे बृहत्यौ संपादयत-इत्येतेषां बृहतीरूपतया बृहच्छन्दःशब्देनाख्यानम् । तथा च श्रूयते—‘बृहती वै छन्दां खाराज्यमानशे' इति । तदित्थं छन्दःसिद्धौ तस्यैव चतुरक्षुररूपस्य रसस्य जगल्यामलयाधाने षोडशाक्षरं भवति । तदत्याधानादति च्छन्द इत्युच्यते । अथ पञ्चदशीसप्तदश्यौ, चतुर्दश्यष्टादश्यौ, त्रयोदश्यूनविंश्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे षोडश्यौ संपादयत-इत्येतेषामतिच्छन्दोरूपतया अति च्छन्दःशब्देनाख्यानम् । एवमूनविंशत्युत्तरं पुनश्चतुरक्षराधाने त्रयोविंशत्यक्षरं भवति । तत्र कृतिशब्दः । तकियोत्तरं तज्जातीयक्रियान्तरसंनियोगे कृतिशब्दो दृष्टो वर्गवत् । तथा चेहापि द्वाविंशीचतुवैिश्यौ, एकविंशीपञ्चविंश्यौ, विंशीषडिंश्यौ चेयेवं द्वे द्वे संयुज्य द्वे द्वे त्रयोविंश्यौ संपादयत इति कृतिच्छन्दोरूपतया कृतिच्छन्दःशब्देनाख्यायन्ते । तदित्थं सतेि कृतिच्छन्दसामतिधृतावतिच्छन्दसां च जगत्यामन्तर्भावः सुवचः । प्रचेि तिच्छन्दांसि तु छन्दःसमुच्चयरूपाणीति नातिरिच्यन्ते । अथानादिष्टच्छन्दसां गायत्र्या मन्तर्भावः । भुरिग्दैव्यां चतुरक्षरवृद्या याजुष्याः, तत्र खराजि चतुरक्षरवृद्या साम्या तत्र खराजि चतुरक्षरवृद्या आच्र्याः, तत्र खराजि चतुरक्षरवृद्या आष्यः खरूपा ‘उक्तादिपञ्चकं कैश्चिद्रायत्रीत्येव कथ्यते यथा ह्यतिजगल्यादि त्वतिच्छन्दः प्रवण्यैते ॥’ इति । तथा चातिजगल्यादीनां जगत्याम्, उक्तादीनां तु गायत्र्यामन्तर्भावसंभवात् सप्तव छन्दांसीति याज्ञिकानामभिमानः । तदिदं छन्दः पुनद्वेधा-मात्राछन्दो वृत्तच्छ न्दश्च । नत्र मात्राछन्दांस्युक्तानि गायत्र्यादीनि ससैव । तानि जातिभेदेन पृथग्