पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यपदिश्यन्ते । अथ मात्राछन्दसां गायत्र्यादीनामेकैकेऽवान्तरविशेषा वृत्तच्छन्दांसि तानि वृत्तिभेदेन पृथग् व्यपदिश्यन्ते । यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणादिजातयः ब्राह्मणादिविभाजिकास्तु तत्तद्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमायूह्यमिति याज्ञिकानां प्राचामनुसारेण व्याख्यातम् । नव्यास्तु छान्दसिकाः पुनरन्यथान्यथा विभय व्याचक्षते । (१) तत्र पद्यजातं द्वेधा-वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दःसिद्धिस्त द्रुत्तम् । यत्र नु नियतमात्राव्यवस्थया छन्द:सिद्धिः सा जातिः । तथा चाह नारायण ‘पद चतुष्पदी तच वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ।।' हलायुधेोऽप्याह पट्यं चतुष्पदं तच्च वृत्तं जातेिरिति द्विधा । एकदेशस्थिता जातिद्वैतं लघुगुरुस्चितम् ॥ (२) परे तु वृत्तिर्जातिरिति द्वेधा विभज्य तयोरुभयोरेव वृत्तशब्देन छन्दःशाब्देन च सामान्यतो व्यपदेशमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द इति । तथा चैषां मते छन्दोवृत्तशब्दयोः पर्यायवाचित्वम् (३) छन्द:परिमलकारस्तु तयोः पर्यायार्थत्वं प्रत्याख्याय –‘मात्राक्षरसंन्यः नियता वाक् छन्दः, गलसमवेतखरूपेण नियता वाग् वृत्तम् ।' इत्येवं व्यवस्थ. ति । तथा च तन्मतेः उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका । गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्कित्रिष्टुभः ।। जगती चातिजगती शक्करी चातिशक्करी । अष्टयत्यष्टी धृतिः सातिः कृतिः प्रकृतेिराकृतिः ॥ विकृतेिः संकृतिश्वातिकृतिरुत्कृतिदण्डकाः । एतानि वर्णच्छन्दांसि तद्वेदानां तु वृत्तता ॥ एवमेव णढादीनां मात्राच्छन्दस्त्वमेिष्यते तदवान्तरभेदानां जातित्वमिति सिद्धयति ॥ (४) अपरे तु पुनरन्यथा विभज्य व्याचक्षते । तथा हि-पद्यच्छन्दस्तावत्रेध वैदिकं च, लौकिकं च, उभयसाधारणं च । तत्र लौकिकं पुनखेधा-गणच्छन्दः, मात्रा च्छन्दः, अक्षरछन्दश्चति । तथा चोक्तम् आदौ तावद्रणच्छन्दो मात्राच्छन्दस्ततः रम् । तृतीयमक्षरच्छन्दश्छन्दत्रेधा तु लौकिकम् ॥ आर्याद्युद्रीतिपर्यन्तं गणच्छन्दः समीरितम् मात्राच्छन्दश्धूलिकान्तमौपच्छन्दसिकादिकम् ॥ समान्याद्युत्कृतिं यावदक्षरन्छन्द एव च ॥’ इति ।