द्विचक्रत्वम्, अध कदाचित्पुनः कालचक्रपरिवृत्त्यभिप्रायेणैकचक्रत्वं च तत्र न्त्र व्य ‘एष स्य भानुरुदियर्ति युज्यते रथः परि ज्मा दिवो अस्य सानवि । (ऋ. सं.) इम रथमाध य स तस्थुः सप्त चक्र सप्त वहन्त्यश्वाः । सप्त स्वसारो अभिसंनवन्ते यत्र गवां निहेिता सामनाम ।’ इत्यादिषु सप्तचक्रन्वस्य तस्य गायत्री च जगती च पक्षावभवताम्' इत्यादिषु द्विचक्रत्वस्य, उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य । (ऋ. सं.) समानं चक्र पर्याविवृत्सन् यदेतशो वहति धूषु युक्तः । , , सप्त युञ्जन्ति रथमेकचक्रमेको अश्धो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्व यत्रेमा विश्वा भुवनाधितस्थुः ॥ , , द्वादशारं नहि तज्जराय वर्वर्ति चक्र परिद्यामृतस्य । आ पुत्रा अन्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च तस्थुः । (ऋ. सं.) पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा । तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥ , , इत्यवमादध्वकचकत्वस्य च प्रतिपादनात् । एवमेवाश्वत्वाभ्युपपत्तावपि समा: - काश्चत्वाभ्यां कल्पनाभेदोऽपि सर्वथा संभवादुपपद्यते, सिंहो माणवक इत्यादिरः:ण- शब्दतया तत्तात्पर्यविषयभूते वस्तुनि बाधादर्शनात् । विधीयते हि प्रकृते:रथाश्वादि शब्दैः रथाश्वादिगुणश्छन्दसि वस्तुभूतः; । स च खाधिष्ठितत्वखव्यापारप्रयोजकव्यापा रवत्वैतदुभयसंबन्धेन खविशिष्टं यत्, तन्निष्ठप्रवृत्तिजनकप्रवृत्तिमत्वरूपः ! एतदेत्र हेि देवताच्छन्दसोः सयुक्त्वमित्यवधेयम् ॥ प्रायेणैव--- एते वाव देवाः प्रातर्यावाणो यदग्भिरुषा अश्विनौ-त एते सप्तभिः सप्तभिश्छन्दोभि
इत्येवमादयः श्रौतव्यवहाराः संगच्छन्ते । तदित्थंभूतस्य खल्वप्यस्य सप्त च लन्दोम एडलरूपस्य सूर्यमार्गस्य ‘साशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरथ्देन या गतिः ॥ स रथोऽधिष्ठितो देवैरादित्यैषिभिस्तथा । गन्धवैरप्सरोभिश्च ग्रामणीसर्पराक्षसै इत्येवं विष्णुपुराणादिषु गतिप्राधान्येन रथत्वव्यवहारवदेव ऋऽतसत्यमयत्वादग धान्ये यज्ञशब्देन, आदित्यप्राधान्ये प्रजापतिशब्देन. अध कालप्राधान्ये संवत्सरशब्देन च भूयसा वेदिकव्यवहारा दृश्यन्ते