पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ यच–“पशवो वै देवानां छन्दांसि, तद् यथेदं पशवो युक्ता मनुष्येभ्यो वहन्ति । एवं छन्दांसि युक्तानि देवेभ्यो यज्ञे वहन्ति ।” इति शतपथे छन्दसां पशुत्वम्; (२) यदपि—‘अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नश्यः । ताभियांतिः स्वयक्तिभि ॥ १ ।।' (ऋ. सं. १॥४ ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ।। २ ।।' (ऋ. सं. १/४ ) भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यास नमस्यन्तो दिव आ पृष्टमस्थुः परिद्यावापृथिवी यन्ति सद्यः ॥ ३ ॥' (ऋ.सं.१॥८) सप्त रूपसारः सुविताय सूर्य वहन्ति हरितो रथे ॥ ४ ॥.(ऋ. सं.) ‘सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्व यत्रेमा विश्वा भुवनाऽधि तस्थुः ॥’ (ऋ.सं. २॥३) इम रथमाध य सप्त तस्थुः सप्त चक्र सप्त वहन्त्यश्वाः ! सप्त खसारो अभिसंनवन्ते यत्र गवां निहिता मप्तनाम ॥' (ऋ. सं. २३) इत्येतेषु मत्रेषु छन्दसामश्वत्वम्; (३) यञ्च-“तेऽबुवन्नङ्गिरस आदिल्यान् । क स्थ छ वः सद्यो हव्यं वक्ष्याम इति । छन्दःसु इलयबुवन् । गायत्रियां त्रिष्टभि जगल्यामिति तस्माच्छन्दःसु सञ्चय आदिलेयभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति ।’ इति ब्राह्मणे छन्दसां सदनत्वं व्याख्यायते; (४)-तेषामयमाशयः सूर्यो हि दिवि गच्छन् त्रिशत्युत्तरषट्षष्टितमे दिवसे पुनः प्राक्तनं स्थानमागच्छन। यं पन्थानमाश्रयति तदयनवृत्तं त्रिशत्युत्तरषष्टयशैरङ्कितं याम्योत्तरतश्धकांशेन वेियु द्रष्टव्यम् । तदीययाम्यरेखातो दक्षिणतो द्वयंशान्तरेऽपरा रेखा तावदंशाङ्किता,. ततोऽपि दक्षिणेन त्र्यंशान्तरेऽन्या, ततः पश्चाशान्तरेऽप्यन्या कार्या । एवमुत्तररेखाया .उत्तर तेोऽपि तिस्रो रेखाः कार्याः । तदित्थमष्टरेखाभिः सप्तपर्वा सूर्यमार्गः । तत्र सर्वदारणे पर्वणि पञ्चदशभिः पञ्चदशभिरंशैर्विभागे कृते चतुवेिशतिर्विभाग लभ्यन्ते, तदतश्चतु शल्यक्षरेयं गायत्री द्रष्टव्या (१) तदुत्तरपर्वणि च पादाधनैत्रयोदशभिस्रयोदशभि रंशैरष्टाविंशतिविभागाः स्युः, ततस्तावदक्षरा सेयमुष्णिक् संसिद्धा (२) ततोऽप्युत्तर पर्वणि सपादैकादशांशैः कृत्वा द्वात्रिंशद्विभागलाभात्तावदक्षरा सेयमनुष्टुप् सिद्धद्यति (३) अथ मध्यमपर्वणि सूर्यबिम्बाधिष्ठिते दशभिर्दशभिरंशैर्मर्यादायां षट्त्रंशद्विभा गसिद्धौ तावदक्षराया बृहत्याः सिद्धिः (४) एवं तदुत्तरपर्वणि नवांशैः कृत्वा चत्वा रिंशदक्षरायाः पङ्गः (५) तदुत्तरतश्च पादोनपादेन सपादैकादशकलात्मकेन सहितै रष्टांशः कृत्वा चतुश्चत्वारिंशदक्षरायात्रिष्टुभः (६) तथा सर्वोत्तरपर्वणि सार्धसप्तांशैः कृत्वा अष्टाचत्वारिंशदक्षराया जगत्याश्च संसिद्धिद्रष्टव्या (७) तथा हि न्यासः--