पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ मनसेऽझये खाहेति । मेधायां वा मनसाभिगच्छति-यजेयेति । ते अस्यैते आत्मन् देवते आधीते भवतः—मेधा च मनश्च–इत्यादिना, तथा ‘इमे वै प्राणा मनोजाता मनोयुजो दक्षक्रतवः, वागेवान्निः, प्राणोदानौ मित्रावरुणौ, चक्षुरादित्यः, श्रोत्रं विश्वेदेवाः’ इलेयेवमादिना च सर्वव्यवहारप्रयोजकत्वं मनसः समान्नायते । ‘तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिन दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् । इति मनुना स्मर्यते च । एतदभिप्रायेणैव पुरुषेषु मनुष्यमानुषमानवमनुजाः शब्दा प्रवर्तन्ते । मनुमनुर्मनसामैकाथ्र्यात् । अत एव पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ।।' इति मन्त्रस्याथर्वणे 'पुनन्तु मनवो धियः’ इति पाठः संगच्छते । मनखील्यादिश ब्दानां व्यक्तिविशेष:िरूढानां मनःसंयुक्तयावदर्थपरत्वाभाववन्मनुष्यादिशब्दानामपि पक्ष्यादिष्वनुपचारः प्राशस्त्याभिप्रायः । प्राशस्त्यं च वृत्त्यष्टकबीजाङ्करयोग्यक्षेत्ररूप स्यास्य मनुषः संपूर्णात्मत्वेन द्रष्टव्यम् । अत एव मनुष्यवनैतेषु तिर्यग्योनिजेषु वृत्तयोऽष्ट विधा उत्पद्यन्ते । तदुत्पत्तिक्षेत्रस्य मनुषस्तेषु खिलरूपेणैवानुवर्तमानत्वात्तदनुसारेण यत्किं चिदृतेरेव ततः समुदयान् । वृत्त्यष्टकं चेदमाथर्वणे समामनन

  • मनसे चेतसे धिय आकूतय उत चित्तये ।

मलै श्रुताय चक्षसे विधेम हविषा वयम् ।' इति । एतस्मिन्नेव मनुषि प्रयोजकादितादात्म्याभिप्रायेण कतिपये शब्दाः प्रवर्तन्ते । तथा च मनु प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं खप्रधीगम्यं विद्यात्तं पुरुषं परम् । एतमेके वदन्त्यमेिं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ।।' इति । अथैतस्मिन् मनुध्यसामान्ये खखद्रविणाप्यायनसमर्थकसंस्कारविशेषोत्पत्तावन्यथान्य थाचारग्राही भवतीति कस्यचिद्राह्मणत्वमन्यस्य क्षत्रियत्वं वैश्यत्वं शूद्रत्वं वा प्रवर्तते । तदेतदेवं तत्तद्विभिन्नप्रवृत्तिप्रयोजकानां तत्तदाशयगतसंस्कारविशेषाणां ब्राह्मणादिच्छन्द स्वमाख्यायते । दुराचारानुमितेन तादृशसंस्कारभ्रंशेनोन्मर्यादो ब्राह्मणः खरूपात् पततीति तादृशपातित्यप्रतिबन्धद्वारा यथास्थितखरूपसंग्क्षकस्य तादृशसंस्कारस्य ब्रह्मादिद्रविणस्य वा ब्राह्मणादिच्छन्दस्त्वोपपत्तेः । ब्राह्मणादीनां तत्रैव प्रतिष्ठितत्वाचेति । तथा च न तत्रा प्यर्थान्तरतेति सूक्ष्मेक्षिकया समीक्ष्यम् ।