पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० काव्यमाला । इदानीं प्रस्तारादीन् प्रत्ययानुपक्रमते' । तत्र गायत्र्यादिप्रस्तारसिद्यर्थमेकाक्षरप्रस्तार पूर्वकं त्र्यक्षरप्रस्तारं सूत्रद्वयेनाह द्विकौ ग्लौ ।। ८ । २० ।। उपरिष्टाद् गकारं लिखित्वाधस्ताछकारं विन्यसेदित्येकाक्षरप्रस्तारः । तस्य द्विकत्वाद् द्वौ ग्लौ द्विकौ स्थापयेत् । द्वे आवृत्ती प्रमाणमनयोरिति द्विकौ । ‘संख्याया अतिशदन्तायाः कन्’ (पाणि० ५॥१॥२२) इति कन्प्रत्ययः । ततश्च गकारं ततोऽधस्तालकारं लिखित्वा विस्पष्टार्थमधस्तिर्यग्रेखां दद्यात् । अधस्ताच्च पूर्ववद् गकारलकारौ स्थापयेत् । अत्र किं कर्तव्यमित्याह मिश्रौ च ।। ८ । २१ ।। अनेन द्वितीयाक्षरप्रस्तारं दर्शयति । चकारः पूर्वप्रस्तारसमुच्चयार्थः। द्विकौ ग्लौ स्थाप यित्वा अनन्तरं द्वितीयस्थानेषु मिश्रौ ग्लौ विन्यसेत् । गकारो गकारेण संश्लिष्टो मिश्र उच्यते, लकारश्च लकारेण । मिश्राविति गकारलकाराभ्यां प्रत्येकमभिसम्बध्यते । ‘द्वन्द्वा त्परो यः श्रूयत’ इति न्यायात् । ततश्च प्रथमायामावृत्तौ गकारौ मिश्रौ स्थापयेत् । द्विती यायां लकाराविति । ततो मध्ये लेखामपनयेत् । एवं चतु:प्रकारो द्यक्षरप्रस्तारो भवति । तद्यथा—गौ ल्गौ ग्लौ लाविति । इदानीं द्यक्षरप्रस्तारपूर्वकमेकैकाक्षरवृद्या त्र्यक्षरादिप्रस्तारं दर्शयितुमाह पृथग्ला मिश्राः ॥ ८ ॥ २२ ॥ द्यक्षरप्रस्तारस्य पूर्वन्यायेन द्विकं लेखाविभक्तं स्थापयित्वा तृतीयाक्षरस्थानेषु प्रथमा वृत्तौ गकारा मिश्रा दातव्याः । द्वितीयावृत्तौ लकारा मिश्रास्ततो मध्यात् लेखामपनयेत् । एवं त्रिकः प्रस्तारः सिच्चति । पृथगिति विजातीयासंसर्गमाह । तेन प्रथमायामावृत्तौ न लकारप्रवेशः । द्वितीयायां न गकारस्य । एवं त्रिकप्रस्तारं द्विः स्थापयित्वा पृथग् ग्ल मिश्रा दातव्या इति चतुरक्षरः प्रस्तारः । एवं तत्पूर्वकः पश्चाक्षरः प्रस्तारः । तथैव तत्पू र्वकः षडक्षरो गायत्रीसमवृत्तप्रस्तारः । एवमुष्णिगादीनामप्येकैकाक्षरवृध्द्या अयमेव न्यासः । तत्रेदं सूत्रं त्र्यक्षरात् प्रभृति पुनः पुनरावर्तनीयं यावदभिमतः प्रस्तारः । १. छन्दसां मेदादिप्रल्थायकत्वात्प्रत्यया ।.ते च दार्शताः केदारेण–‘प्रस्तारो नष्ट मुद्दिष्टमेकद्वयादिलगक्रिया । सङ्खयानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥’ इति । १. प्रकारान्तरमुक्तं रह्नाकरे पादे सर्वगुरावाद्यालघु न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् । ऊने दद्यादुख्नेव यावत्सर्वलधुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविवितिवेदिभिः ॥’