पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] यस्य पादे मगणभगणतगणाः ( ऽऽऽ. ऽ॥. ऽऽ) गकारों (ऽ.ऽ) च भवतस्तद्वत्तं ‘व . तोम' नाम । चतुर्भिः सप्तभिश्च यतिः । चकारो यत्यनुकर्षणार्थः । तथोदाहरणम्-- गण यान्युत्से-कं(४)सप-दि प्राप्य-किं-चेि(७ )- गणः छन्दःशास्रम् । त्स्याद्वा य-स्या(४)श्वप-ला चित्त--त्तिः (७) । न्यग ग र्भ भाण तष्टा या दीघां-ङ्गी(४)स्फुट-शब्दाट्ट-हा-सा (७) भगणः तगणः गु० गु० लयाज्या सा स्त्री(४)दुत्त-वातोर्मि-मा-ला (७) । वातोमांति स्त्रियां ‘कृदिकारादक्तिनः'(व्या. वार्नि.) इति ङीष । भ्रमरविलसितं म्भों न्लीं गृ ।। ६ । २१ ।। यस्य पादे मगणभगणनगणलकारगकाराः (ऽऽऽ. ऽ॥. ॥. 1. ऽ) भवन्ति तद् त्रैमरविलसितं’ नाम । चतुर्भिः सप्तभिश्च यतिः । कि ते -(४)चल-दलक-चि-तं ? (७) किं वा प—इं(४)भ्रम-रविल-सि-नम् ? (७) । १. उत्तैकादशाक्षरप्रस्तारस्य पञ्चाधिकत्रिशततमो (३०५ ) भेदो ‘वातोर्मी’ इति नान्ना ख्यातः । वातोगशालिन्योर्भगणतगणस्थान एव भेदः । अतएवानयोर्मिश्रणात्पूर्ववदुपजा तयो भवन्ति । एकलघुविभिन्नतायामिव लघुद्वयविभिन्नतायामप्युपजातयो भवन्तीति वृत्ति कृता ‘तथा शालिनी' (पृ० १३१ पं० १) त्यादिना सिद्धान्तितत्वात् । २. उत्तैकादशाक्षर प्रस्तारस्य नवाधिकसहस्रतमो (१००९) भेदो ‘भ्रमरविलसितम्’ इति नान्ना प्रसिद्धः । अत्र चतुर्थपादान्ते ‘सि’ इति वर्णस्य ‘गन्ते’ (१॥१०) इति सूत्रादुरुत्वातिदेशः ।