पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“अथो देवच्छन्दसानेि वा एतानि, देवच्छन्दसान्येवोपधते । द्वादश द्वादशा भित उपदधाति । तत् षट्त्रंशत् । षट्त्रंशदक्षरा बृहती,बृहती'खलु वै छन्दसां खाराज्यमानशे ।” इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्त्वं चोपपादितम् । षट्त्रंशदक्षरा वच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्बृहतीवदेषां लोकानामपि तत्तदमीन्द्रादिदेवावच्छे दकानां तलक्षणलक्षितत्वेन तथा तथा व्यवहर्तु सुशक्रत्वात् । तथा चेत्थं लोकानां प्रतिपन्न छन्दस्वे छन्दोऽनुगतशञ्दास्तत्रोपचर्यन्ते । तत्राप्यनुप्रजननसंबन्धात्, प्रक्रमसामान्याद्, अर्थयोगाश्च लोकत्रयेऽवच्छेदत्रयशब्दसंबन्धः । तथा हिः

प्रजापतिरकामयत-प्रजायेतेि । स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधायू । तस्य चित्तिः स्रगासीत्, चित्तमाज्यम् । तस्यैतावत्येव दशहात्रातप्यत वागासीत् । एतावान् यज्ञक्रतुः । स चतुहतारमसृजत । सोऽनन्दत्-असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्हेत्रातप्यत । सोऽताम्यत् । स भूरिति व्याहरन् । स भूमिमसृजत—अन्निहोत्रं दर्शपूर्णमासैौ यजूंषि ॥ १ ॥ स द्वितीयमतप्यत । सोऽताम्यत् । स भुवरिति व्याहरन् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । ( २ ) सं ततीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याह रत् । स दिवमसृजत ! अग्निष्टोममुक्थमतिरात्रमृचः । (३ ) एता वे व्याहृतय इमे लोकाः । इमान् खलु वै लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त ॥ इति तैत्तिरीयारण्यकश्रवणातू प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवर्लकमनु छन्दसो iद्वतीयस्य प्रमाणात्मनः, तृतीये तपसि खलेकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसबन्धः । अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषुमानं प्रथमः,प्रमाणं मध्यमः,प्रातमानमुत्तमः , इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थित तया च तत्र माशब्द प्रवृत्त–‘अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोकः स्यासौ लोकोऽनुरूपोऽमुष्य लोकोऽनुरूपः ।' इत्यैतरेयोक्तन्यायेनैतलोकानुरूपेऽमुष्मिन् लोके प्रतिमाशब्दो लब्धावसर इति तत्पारिशेष्यादन्तरिक्षे प्रमाशाब्दोऽवतिष्ठते । उभयो रेवानयोद्यावापृथिव्योरन्तरिक्षे प्रतिष्ठितत्वात्तत्र प्रमाशब्दसादुण्याच । तदित्थं गौण्या वृत्त्या लोकपराणामप्येषां मा–प्रमा-प्रतिमाशब्दानामवच्छेदविशेषार्थत्वं न विहन्यत इति सिद्धम्। तदित्थं मा-प्रमा-प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राण एव वा इन्द् इति लभ्यते । तत्रास्य प्राणस्यायमवच्छेदो यैरवयवभूतैरन्यान्यैः प्राणैः प्रस;च्यते