पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः छन्दशानन्। गायत्र्यादीनां क्रमेणैतानि गोत्राणि भवन्तीति वाक्यशेषः। अत्र 'रोचनाभाः कृतयः; श्यामान्यतिच्छन्दांसि', इत्येवमादिकमधीयते छान्दसाः। तनोपपद्यते । कृतीलामति- च्छन्दसां च निगुरिजोविराट्खराजोश्च प्रदेशाभावात् कश्चिनास्ति संशयः, यस्य निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवतास्वरवर्णानां ज्ञानानिःश्रेयस-. मिच्छन्ति छान्दसाः॥ इति भट्टहलायुधकृतायां पिजलछन्दोवृत्तौ तृतीयोऽध्यायः। ब्रह्मणः सामय॑जुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्ण स्मृतम् । इत्यु- व्वटमाष्यम् ॥ ___ छन्दसां धातवोऽप्युक्ताः सात्यायनारण्यके-'अस्मानं वागतमयबष्टुभं लोहमौ- ष्णिहं सीसं काकुभं रजतं खाराज्यं सुवर्ण गायत्रम्' (१११७) इति । एवमन्यदप्यति- च्छन्दसां खरादिग्रन्थान्तराज्नेयम् । विस्तरमयान्न समृह्यते। ननु भगवता पिङ्गलाचार्येण कृतो योऽयं देवतादिनियमः, स किं विधिनियमोऽनुवा- दार्थो वा,। नाद्यः, तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमत्राणां कर्मकाण्डी- यमत्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् । किंच 'गायत्र्याः सविता जातके- दसः' 'त्रिष्टुभोऽग्निर्देवता' इत्यादिना, सप्तव्याहृतीनामपि छन्दसां देवतानां चानेन महा- विरोधापातात् । यथाह संवर्तः-'व्याहृतीनां च सर्वेषामारे चैव प्रजापतिः । गायत्र्युष्णि- गनुष्टुब्बृहतीपङ्किरेव च ॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै। अनिर्वायुखया सूर्यो बृहस्पतिरपांपतिः। इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥' इति । नापि द्वितीयः, अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताच । __ अत्रेदमवधेयम्-येषां मत्राणां छन्दोदेवतादीनि नोकानि, अपि तु विराट्सराडा- दिलक्षणद्वयलक्षितत्वेन 'गायत्र्युष्णिग्भ्याम्' 'उष्णिगनुष्टब्भ्याम्' इत्यादि संशयो भवेत. तत्राद्यपादेन क्वचिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिलाना- र्येण 'आदितः संदिग्धे' (पि. सू० ३ । ६१) इत्यादि नव सूत्राणि विहितानि, इति । एतेषामुदाहरणानि बहूनां वेदशाखानामनुपलम्भादुर्लभानि। यत्तु-शुक्लमुच्चं विजानी- याचीचं लोहितमेव च । श्यामं तु खरितं विद्यादमिरुञ्चस्य देवता ॥ नीचे सोमं विजानी- यात्सरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्यानीचं क्षत्रियमेव च ॥ वैश्यं तु खरितं विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गाग्यं तु खरितं विदुः ॥ विद्यादुदातां गायत्रीं नीचं त्रैष्टुभमेव च । जागतं खरितं विद्यादेवमेव नियोगतः ॥ गान्धर्ववेदे ये. प्रोकाः सप्त षड्जादयः खराः। त एव वेदे विज्ञेयाज्य उचादयः खराः॥ उचौ निषा- दगान्धारौ नीचावृषभधैवतौ । शेषास्तु खरिते ज्ञेयाः षड्जमध्यमधैवताः ॥' इति यांश- वल्कीयशिक्षोकेत्रिष्टुभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ खरौ, गोतमऋषिः । जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपचमाः खराः, गार्यऋषिरित्लादिभिः पिङ्गलोकेनानैक्यं तदपि शाखामेदेन परिहरणीयम् ।