काव्यमाला । छन्दःसु निवृदुरिजौ तथा विराट्खराजौ च दृश्येते; न लौकिकेषु । अतो लौकिकेषु संदेहाभावात्तन्निर्णयभूता देवतादयो नेप्यन्ते । स्वराः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः ॥ ३ ॥ ६४ ॥ खरा गायत्र्यादिषु क्रमेण द्रष्टव्याः ॥ सितसारङ्गपिशङ्गकृष्णनीललोहितगौरा वर्णाः । ३ । ६५ ॥ गायत्र्यादिषु क्रमेण वर्णा वर्णनिर्णयनिमित्तमभिधीयन्ते ॥ आग्वेिश्यकाश्यपगौतमाङ्गिरसभार्गवकौशिकवासिष्ठानि गोत्राणि ३ ॥ ६६ ॥ १. एतदग्रे-‘श्यामान्यतिच्छन्दांसि’ ३॥६७ रचनाभाः कृतयः ३६८ अनुक्तानां कामतो वर्णा इति ३॥६९ इति सूत्रत्रयं स्पष्टार्थमेव । हलायुधीयमस्यानुपपन्नत्वप्रतिपादनमव्याख्यानच'द्वाभ्यां-' (छं० शा० ३॥६०) इ त्यस्योपलक्षणार्थत्वेन त्र्यायूनाधिकेष्वतिच्छन्दस्सु निर्णायकान्तरापेक्षासत्वात्,'यश्छन्दसां वेद विशेषमेनं भूतानि च त्रैष्टुभजागतानि । सर्वाणि रूपाणि च भक्तितो यः खर्ग जयः लेयेति तथामृतत्वम् ॥’ (ऋ० प्रा० १८॥४६) इति विशेषज्ञानस्य श्रेयोहेतुत्वस्मरणात्, एन्त्सूत्रत्रयस्यागे च प्रत्यध्यायसमाप्ति दृश्यमानेतिशब्दाभावेनात्र तृतीयाध्यायसमाप्य निश्चयात्, अविच्छिन्नवैदिकाध्ययनपरम्परया ‘गोरोचनाभाः कृतयो ह्यतिच्छन्दो हि श्यामलम् ।' (३३०॥२२) इत्यग्निपुराणेऽनुवादर्शनेन चास्य मौलिकत्वनिश्चयात् आर्षशास्रदूषणे ‘यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याङ्गह्मघातिनम् ॥' (म० भा० अनु० २४॥८) इत्यादौ महादोषस्मरणाचातिसाहस मात्रम् । अत्र विशेषः प्रातिशाख्ये–‘अरुणं श्यामगौरे च बधु वै नकुलं तथा । पृन्निवर्ण वैराजं निवृच्छयावं पृषद्भरिक् ॥ ब्रह्मसामग्र्यजुश्छन्दः कपिलं वर्णतः स्मृतम् । (१७२८-३२) इति । अरुणं प्रातःसन्ध्याभवर्ण पाङ्कम् । श्यामं कृष्णवर्णमतिच्छन्दः । गौरं सिद्धार्थवर्ण विच्छन्दः । बभु कपिलवर्ण द्वैपदं छन्दः । नकुलवर्णमेकपदं छन्दः । पृश्निवर्ण बहुवर्णचित्रं वैराजम् । अथ कस्मात् वैराजंस्य द्विवर्णोपदेशः क्रियते? । तत्र क्रमेणैव नीलत्वं सिद्धम् । न सिद्यति; कथम्? एतास्तिस्रो विराजः,-अनुष्टुबेका, पङ्कि रेन, द्वाभ्यां न्यूना चैका । तत्र पूर्वयोनीलवर्णः, अस्याः पृश्रिरिति वेदितव्यम् । एवमपि क,नेतदश्यवसीयते-पूर्वयोनीलः, अस्याः पृश्रिरिति? ! निचूद्भरिजोन्यूनाधिकयोः समी पाश्द-7न् अस्याः पृश्निरिति, परिशेषादितरयोनील इत्यध्यवसीयते । एके क्रमात्पङ्गेरेव विराजो नोलनं मन्यन्ते । श्यावं कृमिदूषितपत्रवर्ण निवृद्भवति । विदुमवदुरिक् भवति ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६२
दिखावट