पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ काव्यमाला । प्र विपरीता वाराही । ३ । १३ ।। इयमेव नागी गायत्री विपरीता यदा भवति तदा ‘वाराही' नाम भवति । प्रथमः षडक्षरः पादो, द्वितीयतृतीयौ नवाक्षरौ । यथा [*वीत५स्तुके स्तुके (१) युवमस्मासु नियच्छतम् (२) । ग्रं यज्ञपतिं तिर (३) ॥ (तै० आ० प्रपा० ३ अ० ११ मं० २०) ] पैङ्कसप्तकाष्टकैर्वर्धमाना । ३ । १४ ।। षडक्षरः प्रथमः पादः, द्वितीयः समाक्षरः, तृतीयोऽष्टाक्षरः । एवं त्रिभिः पादैः वर्धमाना’ गायत्री भवति । यथा -- ‘त्त्रर्मझे यज्ञानां (१) होता विश्वषां हितः (२) । देवेभिर्मानुषे जने (३) ॥'.(ऋग्वेदे-अ० ४ अ० ५ व० २१ मं० १) विपरीता प्रतिष्ठा । ३ । १५ ।। सेव वर्धमाना गायत्री विपरीता यदा भवति तदा ‘प्रतिष्ठा' नाम गायत्री भवति । ' ' 'रः प्रथम: पाद:, द्वितीयः सपाश्रः, षडक्षरस्तृतीयः । यथा ‘आपः पृणीत भेषज (१) वरूंथं तन्वे ३ मर्म (२) : ज्योक्च सूर्य दृशे (३) ।’ (ऋग्वेदे-अ० १ अ० २ व० १२ मं० १) तृतीयं द्विपाञ्जागतगायत्राभ्याम् । ३ । १६ ।। तृतीयशब्देनैतदध्यायस्थसूत्रपाठक्रमापेक्षया विराजमाह । तथा चोक्तम्—‘विराजेः दिशः’ (पि० सू० ३॥५) इति । यदा द्वादशाक्षरोऽष्टाक्षरश्च पादः स्यात्, ततस्ताभ्यां ‘द्विपाद् विराड्’ नाम गायत्री भवति । यथा नृभिं सानो हंर्यतो विचक्षणो (१) राजां देवः संमुद्विर्यः (२) ।’ (ऋग्वेदे-अ० ७ अ० ५ व० १५ मं० १ ) १. ‘पर’ इति व्यूहान्वाक्षरत्वम् । उदाहरणान्तरं मृग्यम् । २. प्रातिशाख्ये वर्धमानाया भेदान्तरमपि दृश्यते—‘अष्टकौ मध्यमः षङ्क एकेषामु पदिश्यते ।' (१६॥२२) इति । उदाहरणं तु निर्षसाद धृतत्रतो (१) वरुणः पुस्त्या ३स्वा (२) । साम्राज्याय सुक्रतुः (३) ॥' (ऋ० सं० ० १ अ० २ व० १७ मं० ५) तृतीयो व्यूहेनाष्टाक्षरः । ३. अत्र क्रमोऽविवक्षितः । जांगतग्रहणं च त्रैष्टुभस्याप्युपलक्षकम् । तेन वसुंरन्निर्वसुश्रवा (१) अच्छानक्षि द्युमत्तमं रयिंदः (२) ॥ (ऋ० सं० ० ४ अ० १ व० १६ मं० २) इत्यार्दनामपि सङ्कहः । यद्यपि भून्ना विराडाख्यं स्वतन्त्रमेव छन्दः श्रूयते, तथापि घवार्थमस्य मेदानां तत्र तत्रान्तर्भावः सप्तच्छन्दोवादावष्टम्मेन विहित इति बोध्यम्