पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ] त्रिपात्रैष्टुभैः । ३ । १७ ।। तृतीयम्’ इत्यनुवर्तते । एकादशाक्षरैः पादैः त्रिपाद् विराड्’नाम गायत्री'भवति दुहीयन्मित्रर्धितये युवाकु (१) राये च नो-मेमीतं वार्जवत्यै (२) । इषे च नो मिमीतं धेनुमत्यै (३) ॥' (ऋग्वेदेअं०८ मं० ) -अ०१ व० २३ ४ इति गैयत्र्यधिकारः । १. शौनककात्यायनाभ्यां त्विदमनुष्टुब्भेदेषु परिगणितम् । २. गायतां त्राणात् गायत्री । ‘गायत्री गायतेः स्तुतिकर्मणः । त्रिगमना वा विप रीता गायतो मुखादुदपतदिति च ब्राह्मणम् ।' (नि. अ. ७ खं. १२) इनि यास्कः । भगवता कात्यायनेन तु गायत्र्या नव भेदाः प्रदार्शताः–‘प्रथमं छन्दस्त्रि पदा गायत्री [१] पञ्चकाश्चत्वारः षङ्कश्चैकः, चतुर्थश्चतुष्को वा पदपङ्गि [२] षट्सतैकादशा उष्णिग्गर्भा [३] त्रयः सप्तकाः पादनिवृत् [४] मध्यमः षङ्कश्चदूतिनिवृत्[५] दशाकश्चद्यवमध्या [६] यस्यास्तु षट्रसप्तकाष्टका सा वर्धमानं [७] विपरीता प्रतिष्ठा [८] द्वौ षङ्कौ सप्तकश्च हृसीयसी [९] (ऋ० सर्वा० ४ शु० य० सर्वा० ५२) [१] तत्र त्रिपदा गायत्री यथा

  • अझिमळे पुरोहितं (१) यज्ञस् देवमृत्विर्जम् (२) ।

होतारं रखधार्तमम् (३) ।' (ऋ० सं० १॥१॥१॥१) [२] पदपङ्किः पङ्कयधिकारे दर्शयिष्यते [३] उष्णिग्गर्भ ‘ता मे अश्व्यानां (१) हरीणां नितोर्शना (२) । उतो नु कृत्यानां नृवाहंसा (३) ॥’ (ऋ० सं० ६॥२॥२५३) प्रथमतृतीयपादयोः संयोगव्यूहेनाक्षरसङ्खयापूर्तिः । [४] पादनिवृदुदाहृतैव (३॥९) । [५] अतिनिवृत् पुरूतर्म पुरूणां (१) स्तोतृणां विवाचेि (२) । वाजेभिर्वाजयताम् (३) ॥’ (ऋ० सं० ४७॥२६॥४) [६] यवमध्या दर्शयिष्यते (३५८) [७] वर्धमाना [८] प्रतिष्ठा चोदाहृते (३॥१४,१५) यथास्थानम् । [९] हसीयर्सी-आचत्वेनोदाहृतैव (ऋ० सं० ६॥७॥१४५) अत्राप्यनुसन्धेया । लक्षणे क्रमस्याविवक्षितत्वात इन्द्रः सहस्रदावां (१) वरुणः शंस्यानाम् (२) । ऋतुर्भवत्युक्थ्यः (३) ॥’ (ऋ० सं० ११३२५) इत्यादीनामपि सङ्गहः ॥