५३
परलाक प्रहितमासीत्-इति । सा भूयो बभाषे--। यावत्तु तेषामेकोऽप्यव- शिष्यते तावत्कुतस्ते क्षेमम् ? उक्तं हि –-
त्रक्ष्णशेषोग्निशेषश्च द्विषः शेषस्तथा रुजः।
पुनश्च वर्धते यस्मात्तस्माच्छेषं न धारयेत् ॥ ३३ ॥
अतस्त्वया नित्यमवहितेन स्थातव्यम् । मयापि सेवकधर्ममनुपालयन्त्या तव क्षेमहेतोः, सावधानं यथामति तत्तद्विधेयमेव ।
१८. एतन्मारजन्योक्तं निशम्य, तस्याश्वातुर्येण बाढेन च धैर्येण प्रह्वी- कृतोऽसौ तां मुहुः प्रशशंस । प्रोवाच च--। हे वीराङ्गने, त्रिवारं त्वया जीवितं मे रक्षितम् । अस्य प्रत्युपकारस्तु न मया कदापि कर्तुं शक्यते । संप्रति पुनरिदं वदामि--। यदस्मादेव क्षणात्प्रेष्यभावान्मुक्तासि। तवोपकारं निर्यातयितुमुचिततरं किं मयानुष्ठेयम्—एतदपि चिन्तयाम्येव । मन्ये-। मम जीवितं लुण्ठकानामेतेषां कपटप्रवन्धेभ्यो रक्षितुमीश्वरेणैव प्रेरितासि । अतोऽहमिच्छामि--। त्वया नित्यं मत्संनिधावेव स्थातव्यम् । येन, अतः परमपि येकेचन कूटप्रयोगा मच्छरीरमभिद्रोग्धुं द्रोहिणः कल्पयेयुः, तांस्त्वं वन्यतां नीत्वा मां गोपायिष्यसि । उक्तं हि-
पुनरावर्तमानानां भग्नानां जीवितत्यजाम् ।
भेतव्यमरिशेषाणामेकायनगता हि ते ॥ ३४ ॥
संप्रति शवानामेतेषां निखननमेवावशिष्यते । किन्तु, अव्दपालस्य । साहाय्येन मयैव तदनुष्ठेयम् ।
१९. अलिपर्वण आरामः सुविस्तीर्ण आसीत् । प्रान्ते च घनवनराज्या छायाबहुलोऽपि । अस्यां वनराजौ, अब्दपालेन सहालिपर्वा सर्वशयशयन-