गणिका-(क) तदो तदो।
संवाहकः - (ख) तदो अज्ज वेसमग्गे जइच्छोवणदो समासादिदो मि । तस्स भएण इह पविट्ठो । एवं अय्या जाणादु ।
ग्णिका (आत्मगतम्) (ग) अहो अञ्चाहिदं । एवं खु मण्णे वासपादपविणासेण पक्खिणो आहिण्डन्ति त्ति । (प्रकाशम्) एवं गदे अत्तकेरओ अय्यो । हळा ! एहि तं जणं विसजेहि ।
चेटी- (घ) तह । (निष्क्रान्ता।)
गणिका-(ङ) ण खु अय्येण अत्थणिमित्ता चिन्ता कादव्वा । अय्यचारुदत्तो एव देदि त्ति अय्यो जाणादु ।
(प्रविश्य)
चेटी---- (च) अज्जुए ! विसज्जिदो सो जणो, परितुट्टो गदो अ।
(क) ततस्ततः ।
(ख) ततोऽद्य वेशमार्गे यदृच्छोपनतः समासादितोऽस्मि । तस्य भयेनेह प्रविष्टः । एवमार्या जानातु ।
(ग) अहो अत्याहितम् । एवं खलु मन्ये वासपादपविनाशेन पक्षिण आहिण्डन्त इति । एवं गत आत्मीय आर्यः । हला! एहि तं जनं विसर्जय ।
(घ) तथा ।
(ङ) न खल्वार्येणार्थनिमित्ता चिन्ता कर्तव्या । आर्यचारुदत्त एव ददातीत्यार्यों जानातु ।
(च) अज्जुके! विसर्जितः स जनः, परितुष्टो गतश्च ।
१. 'क;--अ' ख. पाठ. २. 'व', ३. 'दं खु । ए' क. पाठ