पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
चारुदत्ते

 गणिका - (क) जुज्जइ । तदो तदो।

 संवाहकः---- (म्व) तदो सो विभवमन्ददाए अस्साहीणपरि.जणो विसज्जिअकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुळे पडिवसादि । अहं पि तेण अय्येण अब्भणुञादो-- अण्णं उवचिट्ठदु त्ति । कहं अण्णं एरिसं मणुस्सरअणं ळभेअन्ति, कहं च तस्स कोमळळळिदमहुरसरीरप्परिसकिदत्थं मे हत्थं साहारणसरीरसम्मदेण सोअणीअं करिस्सं ति जादणिव्वेदो ददुसरीररक्खणत्थं जूदोवजीवी संवुत्तो।

(गणिका सहर्षबाष्पं चटीमवलोकयति ।)

 चेटी--(ग) तदो तदो।

 संवाहकः -- (घ) तदो बहूणि बहूणि दिणाणि मए पराइदेण पुरुसेण कदाइ अहं पि दहसु सुवण्णेसु पराइदो ह्मि ।

 (क) युज्यते । ततस्ततः ।

 (ख) ततः स विभवमन्दतयास्वाधीनपरिजनो विसर्जितकुटुम्बभरणश्चारित्रमात्रावशेषः सार्थवाहकुले प्रतिवसति । अहमपि तेनार्येणाभ्युनुज्ञातोऽन्यमुपतिष्ठतामिति । कथमन्यमीदृशं मनुष्यरत्नं लभेयेति, कथं च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थं मे हस्तं साधारणशरीरसंमर्दैन शोचनीयं करिष्यामीति जातनिर्वेदो दग्धशरीररक्षणार्थ द्यूतोपजीवी संवृत्तः ।

 (ग) ततस्तः ।

 (घ) ततो बहूनि बहूनि दिनानि मया पराजितेन पुरुषेण कदाचिदहमपि दशसु सुवर्णेषु पराजितोऽस्मि ।


१.'स' क। पाठः २. 'द्दणेण' ख. पाठः. ३. 'कः-व' क. पाठः, ४. 'णि दि', ५. 'रि' ख. पाटः.