पृष्ठम्:चम्पूभारतम्.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८९
दशम स्तबक ।


दण्डचण्डिमसपदा कौरवचमू क्षोभयमाणे त[१]स्सिन्सौभद्रे सिन्धुपतिर्व्यहमुख पिधाय स्मरहरवरलाभदर्पेण तदनुधाविनीं पाण्डववाहिनीं क्त्रुधा रुरुधे ॥

उद्यद्भिर्युद्धरङ्गापि सुरवनितापुष्पवत्पतद्भि-
 र्वेगाल्लग्नै परागैर्हढतरघटिते चक्षुषा पक्ष्मयुग्मे ।
स्थित्वा मध्येन्तरिक्ष विजयसुतभुजागर्वलीलायितानि
 द्रष्टुणा खेचराणा भृशमनिमिषता तत्क्षण भङ्गुरासीत् ॥ ४१ ॥
शरशायितैर्दूिरदशैलमण्डलैर्विपुलैर्वधाय विषमा वसुधराम् ।
 पृथुचक्रवर्तिपृथुययन्तवैभव वितथीचकार विजयस्य नन्दन ॥४२॥


सति । सिन्धुपति सैन्धव समुद्रश्च क्त्रुधा कोपेन व्यूहस्य पद्माख्यस्य मुख द्वारभाग पिधाय आवृत्य । स्मरहरात् वरस्य लाभेन यो दर्प गर्व तेनोपलक्षित त अभिमन्यु अनुधावतीति तदनुधाविनीं पाण्डवाना वाहिनीं सेना नदीं च रुरुधे । अत्र सैन्धवसमुद्रयो सेनानद्योश्च क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तिभ्या समुद्रस्य नदीमुखपिधानपूर्वक तन्निरोधानुरूप्यात्मकसमालकारप्रतीरलकारेणालकारध्वनि ।

 उद्यद्भिरिति । युद्धरङ्गादुद्यद्धि ऊर्ध्व प्रसरद्धि सुरवनिताना अप्सरसा सबन्धिन पुष्पवर्षात् पतद्भिरपि । किच वेगालग्नै सक्त्रान्तै परागै भौमै कौसुमैश्च चक्षुषा नेत्राणा पक्ष्मणो युग्मे दृढतरं अतिदृढ यथा तथा घटिते मुकुलीकृते सति । अन्तरिक्षस्य मध्ये मध्येन्तरिक्षम् । स्थित्वा विजयसुतस्य अभिमन्यो भुजागर्वलायितानि बाहुपराक्रमचेष्टितानि द्रष्टद्दणाम् । तृन्नन्तत्वात् ‘न लोक-' इत्यादिना षष्ठीप्रतिषेध । पश्यता खेचराणा देवाना अनिमिषता नेत्रयोर्निमेषराहित्यम् । तस्मिन् क्षणे तत्क्षणम् । भृश भङ्गुरा भग्ना अभूत् । अत्र देवानामनिमिषत्वभङ्गासबन्धेऽपि तत्सबन्धोक्तरतिशयोक्त्ति । परागलग्म्पक्ष्मयुग्मघटनयोर्हतुहेतुमतोरुत्तयात्मकहेत्वलकारोज्जीवितत्वात् द्वयोरङ्गाङ्गिभावेन सकर । रत्रग्धरा ॥ ४१ ॥

 शरेति । विजयस्य अर्जुनस्य नन्दन अभिमन्यु शरै बाणै शायितै पातितै विपुलै महद्भि द्विरदा कौरवगजा एव शैला तेषा मण्डलै समूहै । वसुधरा भूमिं विषमा निम्नोन्नता विधाय कृत्वा । पृथो नाम चक्रवर्तिन पृथो महत यनस्य वैभव धनुष्कोट्या भूमिसमीकरणरूप प्राभव वितथीचकार व्यर्थ चक्रे । अत्र पृथुचक्रवर्तिभूमिसमीकरणवैयर्थीकरणासबन्धेऽपि तत्सबन्धोक्त्तेरतिशयोक्ति । पुरा पृथुर्नाम महाराज शैलैर्विषमिता क्षितिं धनुष्कोट्या तान्नि-


  1. ‘तस्मिन्’ इति नास्ति कचित्