पृष्ठम्:चम्पूभारतम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
चम्पूभारते

पार्थात्मजो भानुसुतस्य सामि मित्त्वा[१] शताङ्क शितभल्लवृष्टया
पितामहोक्त [२]कुरुवीरगोष्ठया तथ्य चकारार्धरथत्वमस्य ॥ ४३ ॥
[३]अथामिमन्युर्घृतभूरिमन्युर्द्रौणि [४]तदीर्ष्यास्मितकान्तिलक्ष्यात् ।
बाल्ये निपी[५]तानापि पिष्टसृरानुग्नै शरैरुद्वमयाचकार ॥ ४४ ॥
सुतस्य शौर्यात्सुरराजसूनोरुदीर्णदिग्भ्रान्तिरुदारभीति ।
कृपस्वसुर्मङ्गलतुनैव साक चकम्पे स गुरुर्मुहूर्तम् ॥ ४५ ॥
 विशिख मुमुक्षुमथ गौतमात्मजे
  विबुधेन्द्रपौत्रमभिवीक्ष्य भीषणम् ।
 जनने विपद्यपि जना रणाङ्गणे
  शर एव हेतुरिति तस्य मेनिरे ॥ ४६ ॥


मैथ्य समीचकार । अतएव भुव पृथूकरणात् पृथुरिति नाम तस्येति पोरा णेिका । मञ्जुभाषिणी ॥ ४२ ॥

 पार्थेति । पार्थात्मज अभिमन्यु शिताना तीक्ष्णाना भल्लाना नाम बाणाना वृष्टथा भानुसुतस्य कर्णस्य शताङ्ग रथ सामि अर्ध भित्त्वा । कुरुषु वीराणा गोष्ठथा कथायाम् । ‘गोष्ठी सभाया सल्लापे’ इति नानार्थरत्नमालायाम् । पितामहेन भीष्मेण उक्त अस्य कर्णस्य अर्धरथत्व तथ्य यथार्क्ष्व चकार । अत्राधा रथो यस्य तस्य भाव तत्त्वम् । महारथलक्षणादर्धन्यूनत्व चेति द्वयो क्ष्लेषभि- तिक्रया अभेदाध्यवसायादतिशयोक्त्तिभेद ॥ ४३ ॥

 अथेति । अथ कर्णपराभवानतर अभिमन्यु धृत भूरि बहुळ मन्यु क्रोध येन तथोक्त सन्। उग्रे दारुणै शरै द्रोणस्थापत्य द्रौणिं अश्वत्थामान त्तस्य अश्वत्थाम्न ईर्ष्थया स्मितस्य कान्ते क्ष्वैत्यस्य लक्ष्यात् व्याजात् । बाल्ये निपीतान् । मात्रा दारिद्यवशात् क्षीराणीमान्येवेति प्रतार्यं पायितानित्यर्थ । पिष्टसारानपि जलमिश्रिततण्डुलचूर्णाशानपि उद्वमयाचकार उद्भारयामास । आगर्भे रक्त्तोद्रार निर्बिभेदेत्यर्थ । अपह्नवालकार ॥ ४४ ॥

 सुतस्येति । सुरराजसूनो सुतस्य अर्जुनसुतस्य अभिमन्यो शौर्यात् उदीर्णा उत्पन्ना दिशा भ्रान्ति वैपरीत्येन ज्ञान यस्य स उदारा महती भीति यस्य तथोक स चापाचार्यत्वेन प्रसिद्ध गुरु द्रोण कृपस्वसु कृप्या द्रोण- पल्या मङ्गलतन्तुना साक मङ्गलसूत्रेण सहैव मुहूर्त चकम्पे कम्पितवान् । अत्र द्रोणस्य कम्पे तत्पत्नीमङ्गलसूत्रसाहित्यवर्णनात्सहोक्तिरळकार ॥ ४५ ॥

 विशिखमिति । अथ द्रोणपराभवनन्तरं गौतमात्मजे कृपाचार्ये विशिख


  1. ‘च्छित्त्वा’ इति पाठ
  2. ‘कुरुराजगोष्ठया’ इति पाठ
  3. ’अथो’ इति पाठ
  4. तदेष्या’ इति पाठ
  5. ‘निपीतनिव’ इति पाठ