पृष्ठम्:चम्पूभारतम्.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
चम्पूभारते

 तमेत दयमानेन समेत शोकसपदा ।
 ऊचेऽथ गुरुणा तेन नीचेतरगुणाब्धिना ॥ ३४ ॥
बाष्पातिवृष्टावपि पाण्डवाना पा [१]पाथोरुहव्यूहवितीर्णमोदान् ।
प्रात श्व एवाखिळधार्तराष्ट्रान्सचारयेय युधि वाहिनीषु ॥ ३५ ॥

 इति गिरा तमाश्वास्य राजान सदनाय विसृष्टवतो मुहुर्मुहुरर्जुनस्य सव्यसाचित्वशैली[२]मनुचिन्त्य हृदि रणरणिकामनणीयसी बि-


मह भीष्म निज वपु शरीरं पृषत्कतल्पे शरशयने माघव श्रीश अन्तरङ्गे मनसि रम मदीया कार्यस्य पाण्डवजयस्य सिद्धिं तवैव । नान्यस्येत्यर्थ । इस्ते कृत्वा निधायेति त्रिष्वपि योज्यम् । स्व स्वात्मक धाम चिन्मय तेज गन्तु तस्मिन् लयेनैक्य प्राप्तु इयेष हि इच्छति स्म खलु । स्व स्वीय धाम स्थान स्वर्ग गन्तु इयेष हि । तस्य वस्वात्मकत्वादिति केचित् । अतस्त्वदेकपरायणे मत्यव- श्यकरणीया दयेति भाव । अत्रानेकक्त्रियायौगपद्यात्समुच्चयालकार ॥ ३३ ॥

 तमिति । शोकस्य सपदा समृध्द्य समेत अन्वित त उक्तप्रकारेण प्रार्थयमान एत दुर्योधन प्रति नीचेतराणा अनल्पाना गुणाना वात्सल्यगाम्भीर्यादीना अब्धिना । आश्रयेणेत्यर्थ । अतएव दयमानेन सकरुणेन तेन गुरुणा द्रोणेन । अथ दुर्योधनप्रार्थनानन्तर ऊचे उक्तम् । ब्रुवतेर्भावे लिटि वच्यादेश । लाटानुप्रास ॥ ३४ ॥

 बाष्पेति । हे नृप, श्व परस्मिन् दिने प्रातरेव युधि युद्धे । पाण्डवाना युधिष्ठिरादीना पाण्डो क्ष्वेतरूपस्य इमे पाण्डवा राजहसा तेषामिति च। ’राज इसास्तु ते चञ्चुचरणैर्लोहितै सिता’ इत्यमर । बाष्पस्य नेत्रजलस्य अतिवृष्टौ सत्यमपि धार्तराष्ट्रान् युष्मान् नीलहसाश्च । वाहिनीषु सेनासु नदीषु च । पाथोरुहव्यूहेन पद्मकारसेनाविन्यासविशेषेण कमलवृन्देन च वितीर्ण दत्त । लब्ध इति यावत् । मोद सतोष येषा तथोक्त्तान् । सचारयेय प्रचारयेयम् । ‘धार्तराष्ट्रोऽसिते हसे धृतराष्ट्रसुतेऽपि च' , ‘सेनानधोस्तु वाहिनी’ ‘व्यूहस्तु बलविन्यासे निर्वाणे वृन्दतर्कयो’ इति क्रमेण विश्वामरौ । क्ष्लेषानुप्राणितो विरोधाभास ॥ ३५ ॥

 इतीति । इत्युक्त्त्प्रकारया गिरा वाचा त राजान दुर्योधन आश्वस्य निर्दु ख कृत्वा । सदनाय निवासाय विसृष्टवत आज्ञातवत । किच मुहुर्मुहु अर्जुनस्य सव्यसाचित्वशैलीं हस्तद्वयेनापि बाणप्रयोगस्वभाव अनुचिन्त्य स्मृत्वा । अनणीयसीं महतीं रणरणिका हृदि मनसि बिभ्राणस्य वहत । ‘रणरणिका सताप प्रक्ष्चात्तापोऽनुतापश्च’ इत्यमर । द्रोणस्य सकाशात् विनिर्गता निद्रामेव सखीं विचेतु अन्वेषितुमिवेत्युत्प्रेक्षा । सा निशा रात्रिरपि तरसा वेगेन । निरगात्


  1. ‘पयोरुङ' इति पाठ
  2. “अनुविचित्य’ इति पाठ