पृष्ठम्:चम्पूभारतम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८५
दशम स्तबक ।

,

शिबिरमेत्य तदैव सुयोधन शितशरव्रणमोचितकबुकम् ।
मृदुलमञ्जगत कलशोद्भव विरचिताञ्जलिरेवमभाषत ॥ ३१ ॥
महारथ त्व मम वाञ्छितद्रु फलेग्रहि न प्रतनोषि यस्मात् ।
कृपेतिशब्दोऽपि बभूव नून इस्खस्त्वयि श्याळ इव त्वदीये ॥ ३२ ॥
 भगवन्, [१]त्वमिद सावधानेन चेतसा स्मरणपथमाधिरोपय ।
पितामह सोऽपि पृषत्कतल्पे वपुर्निज माधवमन्तरङ्गे ।
तवैव हस्ते मम कार्यसिद्धि कृत्वा हि[२] धाम स्वमियेष गन्तुम् ॥३३॥
,


मिव दूषयता निष्फळखाभिन्द्यत्व वस्न्नमयत्व च उपगत प्राप्त आवास शिबिरं प्रति शनै शनै आवदवृते प्रत्यात्तवान् । अत्रारुणे गुरुरित्यत्र केवलप्रकृतास्पदक्ष्लेषद्वयस्य निन्द्यत्ववस्रमयत्वयो क्ष्लेषभितिकाभेदाध्यवसायलब्धैक्येन दूष्यत्वेन द्रोणमनोरथशिबिरयोरौपम्यगमकस्य तुल्ययोगिताभेदस्य च तिलतण्डुलन्यायेन ससृष्टि ॥

 'शिबिरमिति । तदैव सुयोधन शिबिर द्रोणावास प्रति एत्य आगत्य शितै तीक्ष्णै शरै यानि व्रणानि तेभ्यो मोचित शनैस्त्याजित कञ्चुक कवच यस्य तथोक्तम् । मृदुळे मञ्चे शयने गत शयित कलशोद्भव द्रोण प्रति विरचित अञ्जलि नमस्कार येन तथोक सन् एव वक्ष्यमाणप्रकारेण अभाषत उक्तमान् । द्रुतविलम्बितम् ॥ ३१ ॥

 महारथेति । हे महारथ द्रोण, त्व यस्मात्कारणात् मम मदीय वाञ्छित मनोरथमेव द्रु वृक्ष फलेग्रहिं सफलम् । फलानि गृह्णतीत्यर्थे ‘फलेप्रहिरात्मभरिश्च’ इति निपातनात्साधु । न प्रतनोषि न करोषि । तस्मात् शब्द्यते व्यवह्रियत इति शब्द पदार्थ । कृपेति दयानामक स ‘कृ-पा’ इत्यक्षरद्वयात्मक दीर्घान्तपद च त्वदीये स्याले पत्नीभ्रातरि शारद्वत इव त्वय्यपि ह्स्व अत्यल्प हस्वान्तश्च बभूव । मत्काङ्कित प्रतिज्ञाय तदनिर्वहणान्मयि तव करुणालेशोऽपि नास्तीत्यर्थ । अत्र मनोरथसफलीकरणाभावेन करुणाशून्यत्वानुमानादनुमानाळकारस्य कृपद्रोणयो क्ष्लेषभित्तिकालब्धैक्यात्यल्पकारान्तत्व द्वयत्मकह्र्स्वत्वाक्ष्त्रयकृपेतिशब्दवत्त्वेनौपम्यगमकतुल्ययोगिताभेदस्य चैकवाचकानुप्रवेशसकर ॥ ३२ ॥

 भगवन्निति । हे भगवन् द्रोण, त्व इद ‘पितामह सोऽपि इति वक्ष्यमाणवाक्य सावधानेन एकाग्रेण चेतसा मनसा स्मरणपथ स्टुतिविषयत्व अधिरो पथ प्रापय ।

 पितामह इति । अपि किचेत्यर्थ । स लोकैकवीरत्वेन प्रसिद्ध पिता-


  1. ‘भवदभिधामिदानी स्मरणपथमारोपय चेतसा सावधानेन' इति पाठ
  2. ‘च' इति पाठ