पृष्ठम्:चम्पूभारतम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
षष्ठ स्तबक ।


 मत्स्येन्द्रमन्दिरमहानसभक्ष्यवृन्द-
  स्वच्छन्द्रभक्षणरहस्यवदावदेन ।
 क्ष्वेलारवेण वललस्य तदा रिपूणा
  चित्त न केवलमकम्पि दिशो दशापि ॥ ९० ॥
उदये समरस्य सैनिकानामुभयेषामसिधेनवो ववल्गु ।
नि[१]जनामपदापरार्धवाच्य निखिल ग्राहयितु च रक्षितु च ॥ ९१ ॥
तावदम्बरपथादभिगन्तुस्तामनीकधरणीं शमनस्य ।
कासराद्हरधीशतुरग कादिशीक इव दूरमयासीत् ॥ ९२ ॥


 मत्स्येन्द्रेति । मत्स्येन्द्रस्य विराटस्य मन्दिरे यन्महानस पाकस्थान तस्मिन् भक्ष्याणा पञ्चविधाना भृन्दस्य स्वच्छद यथेच्छ यथा तथा भक्षणस्य रहस्य मर्म । तज्जनितान्त सार इति यावत् । तस्य वदावदेन वक्त्रा । तत्र बह्ननेन भुक्त कथमन्य थास्यैव नाद इति तद्भक्षणस्वाच्छन्द्यसूचकेनेति यावत्। अत एवानुमानालकार । वललस्य भीमस्य क्ष्वेलारवेण सिंहनादेन तदा रिपूणा चित्त केवल मन एव नाकम्पि अफम्पितम्। कितु दशापि दिश अकम्पिषत । कम्पते र्क्मणि लुड्। अत्र रिपुहृदयाना दशदिशा च कम्पनेनौपम्पस्य गम्यत्वात्तुल्ययोगिताभेद पूर्वो'क्तानुमानेन ससृष्ट ॥ ९० ॥

 उदय इति । उभयेषा मात्स्यत्रैगर्ताना सेनिकाना बीराणाम् । 'सेनाया समवेता ये सैन्यास्ते सैनिका अपि’ इत्यमर । समरस्य युद्धस्य उदये आविर्भावे सति असिधेनव खङ्गा । यद्यपि ‘छुरिका चासिधेनुका’ इति कोशादसिधेनुपदस्य स्वल्पे खङ्ग विशेषे प्रसिद्धि , तथापि युद्धप्रकरणेन सामान्यपरत्वम्। यथात्रैव पार्थशब्दस्य अर्जुने प्रसिद्धस्य प्रकरणेन युधिष्ठिरादिपरत्वमिति ध्येयम् । निजस्य नामपदस्य असिधेनुरिति सहाशब्दस्य सबन्धिन अपरार्धस्य धेनुरित्युत्तरभागस्य वाच्य गोकुल निखिल नि शेष यथा तथा प्राहयितु त्रैगर्तैरपहारयितु रक्षितु मात्स्यै पालयितु चेत्यर्थ । ववल्गु चलन्ति स्म। उभयेऽपि खङ्गैयुध्यन्ते स्मेत्यर्थ । औपच्छन्दसिकम् ॥ ९१ ॥

 अथ दशभि सूर्यास्तमये वर्णयति तावदिति । तावत् तदानीमेव अम्बरपथात् आकाशमार्गात् ता अनीकधरणीं मात्स्यत्रैगर्तयुद्धभूमिं अभिगन्तु आग च्छत शमनस्य यमस्य कासरात् वाहनमहिषात् कादिशीक भयात्पलायत इवेत्युत्प्रेक्षा । अहरधीशस्य सूर्यस्य तुरग रथाश्व दूर अयासीत् गतवान्। अस्तगत सूर्य इत्यर्थ । याते कर्तरि लुङ् । अश्वमहिषयोर्नैसर्गिक वैरमिति प्रसिद्धम् । खागता ॥ ९२ ॥


  1. ‘निजनामपरार्धवाच्यमेतत्’ इति पाठ