पृष्ठम्:चम्पूभारतम्.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
चम्पूभारते


सभ्यैश्च सूदैश्व तुरङ्गिभिश्च [१]गोपैश्च विज्ञापितवीर्यभूभ्न ।
द्न्तानिवेन्द्रद्विरद स पार्थान्वीर[२] पुरोधाय रुरोध शत्रुम् ॥ ८७ ॥
 तृणकल्पमपि त्रिगर्तभूप तमुपेक्ष्यैव तदा गवा कुलानि ।
 सहदेवविलोकमात्रहर्षात्सहसा मात्स्यचमूसमीपमापु ॥ ८८ ॥
 मौर्वीकुशाङ्कितकरावथ बद्धपङ्क्ती
  [३]भत्स्यत्रिगर्तवसुधाधिपयोरनीकौ ।
 आध्मातशङखनिनप्रणव[४]प्रणाद्-
  मायोधनाध्ययनमद्भुतमारभेताम् ॥ ८९ ॥


न्तीति तथोक्ताना कीचकबान्धवाना सूतात्मजसबन्धिना वीराणा अश्वाना प्रसई आरोहणप्ररतावेऽपि । किमुत मालिनीप्रस्ताव इत्यपिशब्दार्थ । अभिधीयमान गन्धर्व इति शब्द अश्वस्यापि वाचक पद गरलायते स्म । कालकूटतुल्योऽभूदित्यर्थ । क्यङन्ताकर्तरि स्मयोगे लट्। 'वाजिवाहार्वगन्धर्व–’ इत्यश्वपर्यायेषु प्रसिद्धोऽपि हृदयशल्यायमानान्मालिनीभतीनेव सत्वरमुपस्थापयन् शब्द तेषा गरलप्रायोऽभूदित्यभिप्राय । उपमार्थापत्त्यो ससृष्टि । इन्द्रवज्ञ्रा ॥ ८६ ॥

 सभ्यैरिति । स वीर विराट सभ्यै सभाया साधुभिश्व सूदै पाचकैश्च तुरङ्गिभि अश्वारोहैश्च गोपै गोपालेश्च विज्ञापित क्रमेण निवेदित वीर्यभूमा शौर्यातिशय येषा तान् । तेषामेव प्रत्येक तैरासवत्सर परिचितत्वादिति भाव । पाथान् युधिष्ठिरभीमनकुलसहदेवान् इन्द्रद्विरद ऐरावत दन्तान् चतुर इव पुरोधाय अग्रे कृत्वा शत्रु सुशर्माण रुरोध रुद्धवान् ॥ ८७ ॥

 तृणेति । तदा सुशर्मणो निरोधसमये गवा कुलानि सहदेवस्य खपालकस्य विलोकमात्रेण दर्शनेनैव यो हर्ष तस्माद्धेतो तृणकल्प स्वग्रासतृणतुल्यमपि त त्रिगर्तभूप सुशर्माण तृणकल्पमपि तृणप्राय यथा तथैव । अपिरत्रैवकारार्थं । उपेक्ष्य अनाह्त्यैव सहसा सखर मात्यस्य विराटस्य चम्बा सेनाया समीप आपु - स्वजीवनादपि स्वपालके प्रेमौत्कटयादिति भाव । औपच्छन्दसिकम् ॥ ८८ ॥

 मौर्वीति । अय मौर्व्य शिञ्जिन्य एव कुशा तै अङ्कित सयुक्त कर ययोस्तौ। बद्धा पङ्क्ति पङ्क्तिशोऽवस्थान याभ्या तौ । मत्स्यवसुधाधिप विराट , त्रिगर्तवसुधाधिप सुशर्मा, तयो अनीकौ सैन्ये । आध्माताना मुखवायुपूरिताना शङ्क्ताना निनद ध्वनिरेव प्रणवप्रणाद ओंकारोच्चारण यस्मिस्तथोक्त आयोवन युद्धमेव अध्ययन वेदपाठ अद्भुत यथा तथा आरभेता आरब्धवन्तौ। रभते कर्तरि लड्। ‘प्रण्वप्रधान' इति पाठे तादृशप्रणव प्रधान प्रथमपठनीय यस्मिंस्तधथा तवेति क्रियाविशेषण समस्तवस्तुवर्ति सावयवरूपकम् ॥ ८९ ॥


  1. पैौरैश्च' इति पाठ
  2. धीर’ इति पाठ
  3. 'मात्स्य' इति पाठ.
  4. प्रधान' इति पाठ