पृष्ठम्:चम्पूभारतम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
चतुर्थ स्तबक ।


तत्ताशेन तपसा तरुणेन्दुमोलि
      [१] न्वन्द[२]यापरवश तनयो मद्योन ।
     पादाग्रमेव धरणो प्र[३]णिधाय तस्ता-
     वु[४]द्यम्य बाहुमुपरीव फलानि लिप्सु ॥ ६६ ॥
   निरुध्य वायु निभृत तपस्यत
    शिर समुत्था दशदिग्विसृत्वरी ।
   नटत्स्फुलिङगा नवधूमसतति
   स्वुटोचकारास्या धनजयामिधाम् ॥ ६७ ॥
 तस्याथ नारदमुखात्तपस प्रभाव
 क्ष्रुत्वा हरस्त्रिजगतामधिपो दयालु ।


 तदिति । मधोन इन्द्रस्य तनय अर्जुन तत्तदिव पष्यतीति तत्ताध्शेन । असध्शेनेत्यर्थ । तपमा तरुणेन्दु बालचन्द्र मौलौ शिरसि यस्य त साम्ब दयया परवश परावीन तन्वन् कुर्वन् सन् फलानि वाञ्छितार्यानेव चूतपनसा दीनीती लिष्टरूपकम् । लिप्सु ग्रहीतुमिच्छुरिवेत्युत्प्रेक्षा । लमे सन्नन्तादुप्र त्यय । 'सनिमीमा-' इत्यादिनाम्यास्या लोप । बाहु उपरि ऊर्ध्व उद्यम्य उध्दृत्य पादयोरग्रमेव चरणो प्रकर्षेण निवाय तस्थौ स्तिवान्। अत्र रुपकोत्यापितोत्प्रेक्षया चन्द्रचूडत्य फलपृक्षोपमाप्रतीतेरलकारेणालकारध्वनि ॥६६॥

 निरुध्येति । वायु प्राण निभृत निश्चल निरुध्य तयपस्यत अस्य अर्जुनस्य शिरस समुत्था उत्थिता नटन्त स्फुलिङगा अग्रिकणा यस्या तयोक्ता दशसु दिक्षु विस्रुत्वरी व्यापनशीला नवा वूमस्य सतति पङ्क्ति धनजयेत्यमिघा सज्ञापद स्फुटीचकार् । अत्र धूमेनाग्नित्वनित्वनिश्चयादनुमानालकार । वनजयश ब्दश्लेषभित्तिका शब्दार्जुनाग्न्यभेदाध्यवसायातिशयोत्त्युज्जीवित इति तयो स कर। वशस्थवृत्तम् ॥ ६७ ॥

 तस्येति । अथ त्रयाणा जगतामधिप दयालु भक्तवत्सल हरति स्वाश्त्रितसर्वानिष्टानिति हर सदाशिव-सदसि नारदस्य मुखात् वदनात् तस्य अर्जुनस्य सवन्धिन तपस प्रभाव शीर्षादग्न्युत्थानादिरूप माहात्म्य देव्या पार्वत्त्या (कर्त्र्या) हशा ध्क्सज्ञया (करणेन) सूचिता ज्ञापिता तस्य अर्जुनस्य दिध्क्षा द्रष्टुमिच्छा यस्य तथोत्त् सन् । देव्यास्तध्र्शनेच्छा च ज्ञात्वे त्यर्थ । सपदि अभिष्ट अर्जुनस्य वाञ्छित दित्सन् दातुमिच्छन् सन्नपि । ददाते


  1. ’कुर्वन्’ इति पाठ
  2. ’कृपा’ इति पाठ
  3. प्रविधाव इति पाठ
  4. ’प्रोघम्य’ इति पाठ