पृष्ठम्:चम्पूभारतम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
चम्पूभारते


 अजीजनत्तमङ्गराजमङ्ग वैरिण भवा-
  नितीव रो[१]षतो दिनेश एव चक्षुरक्षिपत् ॥ ६३ ॥
पाराशरिप्रापितमन्त्रभागैराराधयञ्शकरमन्तरङ्गे ।
साप्तापि चर्षीस्तपसा विजेतु सप्तत्वमाप स्वयमेक एव ॥ ६४ ॥
फलप[२]र्णजलानिलाशनानि प्रविहाय क्त्रमशस्तपस्यतोऽस्य ।
विषयेषु न लोलता प्रपेदे विजयस्या[३]क्षगुण कराम्र एव ॥ ६५ ॥


प्रसिद्ध वैरिण निसर्गतो विरोधिन अङ्गराज कर्ण अजीजनत् अजनय । जनेर्णिजन्तात्कर्तरि लुडू । ‘णिश्रिद्रुस्त्रुभ्य कर्तरि चड्’ इति च्लेश्वडि ‘णेरनिटि’ इति अणिलोपे द्वित्वे सन्वद्भावेऽभ्यासस्येत्वे दीर्घ । ‘शेषे प्रथम ’ इति भवच्छब्दप्रयोगास्प्रथमपुरुष । इत्युक्तप्रकारात् रोषत कोपादिवेत्युत्प्रेक्षा । दिनेशे सूर्य एव चक्षु दृष्टि अक्षिपत् निहितवान् । क्षिपते कर्तरि लड् । उत्प्रेक्षाद्वयस्य ससृष्टि । ‘अङ्गेत्यामन्त्रणेऽत्र्ययम्’ इत्यमर । पञ्चचामर वृत्तम्—‘लघुर्गुरुनिरन्तर भवेञ्च पञ्चचामरम्” इति लक्षणात् ॥ ६३ ॥

 पाराशरीति । सोऽर्जुन पराशरस्य मुनेरपत्येन पाराशरिणा व्यासेन प्रापि तस्य उपदिष्टस्य मन्त्रस्य प्रतिश्रुतिविद्याया भागै खण्डै सप्तभि अन्तरगे मनसि शकरं शमु आराधयन् ध्यायन् सन् । खयमेकोऽपि सनेव तपसा उक्तविधेन सप्तर्षीश्चापि मरीच्यादीन् विजेतुमिवेत्युत्प्रेक्षा । सप्तत्व सप्ताना भाव तया जटया सहितत्व च । आप प्राप्तवान् । ‘सप्तोदन्तो जटायुक्ते नान्त सख्यान्तरे स्मृत ’ इति सारस्वत । उत्प्रेक्षाश्लेषसकीर्णो विरोधाभास ॥ ६४ ॥

 फलेति । फलानि पर्णानि जलानि अनिलश्च तन्मयान्यशनानि कमश प्रविहाय । फलाशन कतिचिद्दिनानि कृत्वा तद्विहाय पर्णाशनमेव क्रमेण सर्वाण्यपि त्यक्त्वेत्यर्थ । तपस्यत तप कुर्वत । ‘कर्मणो रोमन्थतपोभ्या वर्तिचरो ' इति क्यचि लट शश्रादेश । अस्य विजयस्य अर्जुनस्य अक्षाणा इन्द्रियाण गुण । खभाव इत्यर्थ । विषयेषु रूपादिषु विषये लोलता तृष्णा न प्रपेदे न प्राप । ‘विषया विनिवर्तन्ते निराहारस्य देहिन ’ इत्यागमादिति भाव । कि त्वक्षगुण जपमालैव कराग्रे अग्रहस्ते लोलता चाञ्चल्य प्रपेदे । `लोलश्चलसतृक्ष्णयो' इत्यमर । अत्र श्लेषभित्तिकाभेदाध्यवसायेनैक्यमापन्नस्येन्द्रियस्वभावजपमालाद्वयस्य सबन्धिन्या उक्तन्यायेनेक्यमापनायास्तृष्णाचाञ्चल्यद्वयात्मिकाया लोलताया विषयेषु कराग्ने चोभयत्र प्राप्तावेकत्र कराग्र एव नियमनात परिस रयालकार । भेदातिशयोक्तिद्वयोज्जीवित इति सफर । औपच्छन्दसिकम् ॥७५॥


  1. ‘रोषित ’ इति पाठ
  2. 'पत्र’ इति पाठ
  3. अक्षगण ’ इति पाठ