पृष्ठम्:चम्पूभारतम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
चतुर्थ स्तबक ।


चे[१]लानि कर्षश्चिरमन्धसूनुस्तस्यास्तु नग्नकरण स नाभूत् ।
क्षमात्स्खलित्वा धरणौ पतन्सन्दन्तावलेरेव जनव्रजानाम् ॥ ४२ ॥

 अथ तथाभूतपरुषयोषाभिषङ्गरोषङ्गरोषकलुषेण पृषदश्वजनुषा परिषदि
भीषणमेव बभाषे ।

उरसि स्खलदूष्मल भृगाक्ष्या समितावस्रमिद् यथाहमक्ष्णा ।
द्विषत कचक[२]र्षिणोऽप्यमुष्या रसनेनानुभवेयमेवमेव ॥ ४३ ॥

 कि च सरसीव [३]चलत्कबन्धबन्धुरे समराजिरे तामरसच्छ[४]दानिव शतमपि विमतानेतान्हेमन्त इवाह धार्तराष्ट्रशब्दशेषा महागदापत्ति गमयिष्यामीति ॥ ।


वस्राकाशयोर्बाहुल्यसाम्ययोश्च भेदेऽपि श्लेषभित्तिफया भेदाध्यवसायादतिशयो क्तिभेदद्वयेन ससृष्टि ॥ ४१ ॥

 चेलानीति । स अन्धसूनु दुशासन चेलानि द्रौपद्या वस्त्राणि चिर कर्षन् सन् तस्या द्रौपद्या नग्नकरण विवस्त्रत्वकारी नाभूत् । कितु श्रमात् वस्त्राप कर्षणजन्यात् स्खलिया सखीभ्य वरौ भुवि पतन् सन् जनम्नजाना जनसघाना दन्तानामावले पक्तेरेव नग्नकरणोऽभूत् । त वीक्ष्य पतित विवृतदन्तपङ्कि जहसुर्जना इत्यर्थ । अत्र द्रौपदीजनदन्तावल्यो प्रसक्तस्य नग्नीकरणस्य जनदन्तावल्यामेव नियमनात्परिसख्यालकार ॥ ४२ ॥

 अथेति । अथ तथाभूतेन तादृशेन। ‘भूत पिशाचे सादृश्येऽपि’ इति विश्व । परुषेण क्त्रेरेण योषाया द्रौपद्या अभिषङ्गेण पराभवेन यो रोष तेन कलुषेण विकृतचित्तेन । पृषदश्वात् वायो जनु जन्म यस्य तेन भीमेन । परिषदि सभाया भीषण भयकर यथा तथा । एव वक्ष्यमाणप्रकारेण बभाषे । प्रतिज्ञातमित्यर्थं । भाषतेर्भावे लिट्। ‘पृषदश्वो गन्धवह ’,‘जनुर्जननजन्मानि’ इत्युभयत्राप्यमर ।

 उरसीति । समितौ सभाया मृगाक्ष्या द्रौपद्य उरसि वक्षसि स्त्रलग्न पतत क्षुभ्यच्च ऊष्मल सतामातिरेकादत्युष्णम् । इद अत्र अश्रु अह अक्ष्णा लोचनेन यथा अन्वभव अपश्य एवमेव अमुष्य् द्रौपद्या कचहर्षिण द्विषत दु शासनस्यापि उरसि स्खलत् ऊष्मल अस्त्र शोणित रसनेन जिह्वया अनुभवे यम् । पिबेयमित्यर्थ । अत्र केवलप्रकृतश्लेष । ओपच्छन्दसिकम् ॥ ४३ ॥

 किं चेति । कि च चलद्धि नृत्यद्धि कबन्धै नि शीर्षकलेवरै जलैश्च बन्धुरै विषमे सरसीव समराजिरे युद्धाङ्गणे विमतान् विरोधिन शत एतान् दुर्योधनादीन् तामरसस्य पञ्चस्य च्छदान् दलानिव अह हेमन्त ऋतुरिव । धार्तराष्ट्र इति शब्द नामपद शेष अवशिष्ट यस्या ताम् । महत्या गदया आपत्तिं आपदम्। अन्यत्र


  1. ‘चैलानि’ इति पाठ
  2. ‘कर्षणो' इति पाठ
  3. ‘विचलत्' इति पाठ
  4. ‘च्छदानीव' इति पाठ