पृष्ठम्:चम्पूभारतम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
चम्पूभारते


तत्र सुत्राम्ण पुत्रोऽप्येव प्रतिजज्ञे ॥
  उत्सेकात्कृतहस्तालममुना गान्धारपुत्रीभुवा
 राधसूनुरसौ जहास सदसि ग्राम्प ब्रुवन्य[१]त्तत् ।
यस्य जात्वपि देहिनोऽभ्युदितता नैवाभिनिर्मु[२]क्तता
 स्याता द्व अपि गाण्डिवो मम तु ता निद्राममु नेष्यति ॥ ४४ ॥

 इति तयोस्ताध्शेन वीरवादेन 'अ[३]यि, सुखमिहास्स्व' इति [४]करास्फालननिदर्शिते स[५]क्थिन्येव तव मृत्यु स्यादिति सुयोधन प्रति


महता गदेन रोगेण हिमरुपेण आपत्ति च । गमयिष्यामि प्रापयिष्यामि इति बभाष इति पूर्वेण सबन्ध । 'वार्तराष्ट्रोऽसिते हसे धृतराष्ट्रसुतेऽपि च','गदो भ्रातरि विष्णो स्यादामये चायुधे गदा' इत्युभतत्र विश्व । अनेकेवेयमुपमा श्लिष्टविशेषणा च ॥

 तत्रेति। तत्र तस्मिनेव समये सुत्राम्ण इन्द्रस्य पुत्र अर्जुनोऽपि एव वक्ष्यमाणप्रकारेण प्रतिजज्ञे प्रतिज्ञातवान् । प्रतिपूर्वाज्जानाते कर्तरि लिट्॥

 उत्सेकादिति । असौ राधासूनु कर्ण अमुना गान्धारपुत्रीभुवा दुर्योधनेन सह सदसि ग्राम्य असभ्य वाक्य ब्रुवन् सन् कृत हस्तम्या ताला शब्दविशेषा यस्मिस्तत्ततथा यत् यस्मात् जहास हसति स्म। तत कारणात् यस्या निद्राया देहिन जन्तो जातु कदाचिदपि अम्युदितता सूर्योदय अभिनिर्मुक्तता तदस्त मयश्च । द्वे अपि नैव स्याताम् । पुनर्बुध्द्स्य हि तयो प्रसक्तिरिति भाव । ता निद्रा दिर्घा । मृतिमिति यावत् । अमु राधासूनु मम गाण्डीवस्तु नेष्यति गमयिष्यति इति प्रतिजजे इति पूर्वेण सबन्ध । 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मितु देति च । अशुमानभिनिम्रुत्तोऽम्युदितश्च यथाक्रमम् ॥' इत्यमर । अत्र कर्ण निधनस्य ताध्शभङ्गथन्तरेण कथनात्पर्यायोत्तयलकार-'पर्यायोक्त तु गम्यस्य वचो भङ्गयन्तरेण यत्' इति लक्षणात् । शार्दूलविक्रीडीतम् ॥ ४४ ॥

 इतीति। इति उक्तप्रकारेण तयो भीमार्जुनयो ताहशेन तथाविधेन वीरवादेन प्रतिज्ञावाक्येन अयि द्रोपदि, इह मम सक्थिनि सुख यथा तथा आस्ख उपविश । इति करस्य करतलस्य आस्फ़ालनेन सशब्द स्पर्शनेन निदर्शिते निर्दिष्टे सक्यिनि ऊरावेव तव मृत्यु मरण स्यात् भूयत् । इति उक्तप्रकारेण याज्ञसेन्या द्रौपधा सबन्धिना सुयोधन प्रति दुर्योधनमुद्दिरय शापेन च यद्भय तस्मात् आत्तगन्धाभ्या तिरस्कृतभ्या अन्धदपतिभ्या गान्धारिधृतराष्ट्राम्याम् । 'आत्तगन्धोऽभिभूत स्यात्' इत्यमर ।पुरेव यथापुर घूतात्पूर्वमिव राज्य धूतनिर्जित प्रत्यर्प्य पुन समर्प्य हरिप्रस्य इन्द्रप्रस्य प्रति प्रस्थापित प्रेषित अय युधिष्टिर


  1. 'यतत इति पाठ
  2. 'निर्मुक्तता' इति पाठ
  3. 'अयि' इति नास्ति कचित्
  4. 'आस्फ़ालितदर्शिते' इति पाठ
  5. 'निजसबिथ येव' इति पाठ