पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ राकागमसहिते चन्द्रालोके- = = = .*

~

  • ~

- ~- नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोभरैः(१) ॥

इदंद्वयं पदयमकम् । पदद्वययमकं यथा--

अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् । स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसङ्गतम्

श्लोकार्धगतो यथा- वर्जयत्यां जनैः सङ्गमेकान्ततस्तकैयन्त्या सुखं सङ्गमे कान्ततः । योषयष स्मराऽऽसन्नतापाङ्गया सेव्यतेऽनेकया सन्नताऽपाङ्गया(२) ॥

चरणयमके यथा- यथासीत्कानने तन्न विनिद्रवलिका लता । तथा नइच्छलासक्तिविनिद्रकलिकालता (३) ॥ शरीरस्य बहानि न पश्यसि त्वम्, विषयलोलुपतया भवन्तमात्मनः शरीरशक्तैरुपक्षय मुपेक्षसे इत्यर्थः । मनश्च ते वलक्षकेशानां वृद्धानां निवहः समूहो यल्मिस्तथाभूतं नास्ति, त्वदीये मनसि वृद्धा अवकाशं न लभन्ते, वृद्धजनवचांसि त्वं न विचारयसीति यावत् । किञ्च-नवलक्षवारमनेकवारम् उपदिष्टमपि मयोपदिष्टेऽपीति यावत्, मनाकू किञ्चिदपि नवलक्षण नूतनं दुर्लक्षणे दुर्गुणान् न त्यजसि । अहो ! महीयान् विमोहस्तवेति भावः। | ( १ ) रैवतकपर्वतं गतो विहर्तु कामः श्रीहरिस्तत्र प्रादुर्भवन्तं वसन्तमवलोकया- ञ्चक्रे । तमेव सर्वर्तुराज वसन्त वर्णयति माघः-नवेति । नवानि नूतनोत्पन्नानि पला. शानि पत्राणि येषु तादृशानि पलाशवनानि किंशुकवृक्षकाननानि यत्र तम् , स्फुटानि विकस्वराण्यतएव परागैरन्तर्गतै रजोभिः परागतानि व्याप्तानि पङ्कजानि कमलानि यस्मिस्ताहशम् , मृदुला नूतनोत्पन्नतया कोमला अत एव तान्ता आतपवशाल्म्लानाः लतानाम् अन्ताः प्रान्तभागाः पलवरूपा यत्र तादृशम्, सुमनोभरैर्विकचपुष्पसमूहै। सुरमिंसुगन्धि घ्राणतर्पणम्, सुरभि वसन्तमित्यर्थः । ( २ ) एकान्तत एकान्ते, कान्ततः कान्तेन । सार्वविभक्तिकोऽयं तसिः, स चात्र क्रमेण सप्तम्यर्थे तृतीयार्थं च । सङ्गमे सुखं तर्कयन्त्यो सम्भावयन्त्या, रहसि प्रियसमा गर्म सुखकरं मन्यमानयेति यावत, अत एव जनैः सङ्गं वर्जयन्त्या लोकसहवासं त्यजन्त्या, स्मरेण कारणेन आसन्नतापनि सन्तप्तान्यङ्गानि शरीरावयवा यस्यास्तया, सन्नतौ सम्यन्तावपाङ्ग नेत्रप्रान्तभागों यस्यास्तथाभूतया, अनेकया योषयेति जतावेकत्वम् , अनेकाभिषाभिः स्त्रीभिरिति यावत्, एष रैवतकपर्वतः सेव्यते । रैवतकपर्वतोऽथे। बहुनां प्रियसमागमकांक्षिणीनां ब्रीणां विहारस्थानमस्तीति भावः ।। (३) विनिद्रा विकसिताः कलिकाः पुष्पकोरका यस्यां तादृशी लतेति जाता वैकवचनम् । नले नलविषये या छलासक्तिः कपदाभिनिवेशस्तत्र विनिद्रो जागरूक सावधान इति यावत् कलिकालः कलिसमयो यत्र तस्य भावस्तता नलच्छासक्ति.