पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । यमकुमाह---- पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ।। ७ ।। पुनरुतेति । भिन्नार्थकत्वे सत्येकार्थकपदवदाभासमानत्वम् । अंशुभिः कान्तं सुन्दरमम्बन्तिमाकाशान्तमिति लक्ष्यम् । यथा वा-- भुजङ्ग कुण्डली (१)व्यक्तशशिशुक्लांशुशीतलः । जगन्त्यपि सदाऽपायादव्याच्चेतोहरः शिवः ॥ अयं चालङ्कारो वाक्यनिष्ठत्वाच्छाब्दः । यद्ययार्थबोधान्वयव्यतिरेकानुविधायि. त्वालङ्कारत्वमुचितम्, तथाप्यापाततः शब्दालङ्कारत्वमुकमिति ध्येयम् । अर्य च शब्दश्लेष एवेति युक्तम् ॥ ७ ॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्करं कवेः । यमकं प्रथमा धुर्यमाधुर्यवचसो विदुः ।। ८॥ आवृत्तेति । ‘भिन्नार्थकवर्गसमूहावृत्तिर्यमक'मिति लक्षणम् । वीप्सावारणाय भिन्नार्थंकेति । स्तवकं स्ववके माधुर्यमाधुर्यमिति लक्ष्यम् । कवेः स्तुति कन्दस्य काण्ड- स्याऽङ्कुर प्रथमाः पूर्वं कवयो विदुः। किंभूताः, धूर्यम् आद्यं माधुर्यं यस्य तादृशं वचो येषामित्यक्षरार्थः । यमकं च पदद्विपदचरणाधीवृत्त्या चतुर्विधम् । पदावृत्तिरूपं काञ्ची. यमकादिभेदेनानेकविधम् । तत्र चरणान्तचरणाद्यपदयोकत्वे काञ्चीयमकम् । यथा-- बुबुधे जनेन स महाविषमो विषमोहवाहिविशिखप्रभः । प्रभटप्रभापरिभवद्भुवनो भुवनोपरोधनकरः समरः(२) ॥ इति । न वलक्षयें गणग्रेसीह तनोर्न वलक्षकेशनिवहं च मनः । नवलक्षण न विजहासि मनाग नवलक्षवारमुपदिष्टमपि(३) ॥ ' ( १ ) भुजङ्गः सर्पः कुण्डलं कर्णभूषणं यस्यास्तीति तादृशः । व्यकस्य मस्तके विराजमानस्य कलात्मकस्य शशिनश्चन्द्रस्य शुक्लैः श्वेतैरंशुभिः किरणैः शीतलः सन्ताप- हर इत्यर्थः । अत्राऽऽपाततोऽभिन्नरूपा इव प्रतीयमानी भुजङ्गकुण्डल्यादिशब्दाः पौनरुक्यमिव दर्शयन्ति, अर्थमुख प्रैक्षितया पुनस्तत्परिहारो भवतीति तत्वम् । (२) विषमोहवाहिनो विषाका मूछकराश्च विशिखा बाणा येषां तादृशाः प्रभटाः श्रेष्ठा याद्धारो यन्न सः, प्रभटप्रभया वीरवराणां तेजसा परिभवठ्ठवनो जगद्विजयकरः, भुवनोपरोधनकरः-जगद्धयापकः शरवणेन जगदाच्छादको वा, एतादृशः समरो युद्धम् । युद्धमिदं लौकैरतिभयङ्करं ज्ञातमित्यर्थः । अत्र ‘परिभूयमानेत्यर्थे कृतः परिभवदिति पदप्रयोगश्चिन्त्यः । (३) कुमार्गगामिनं कञ्चित्प्रति तद्धितैषिणो बृद्धस्य कस्यापि वचनमिदम् ।