चतुर्थों मयूखः । गुणत्वं काव्यधर्मत्वमलारत्वमिति भेदः । तत्रापि माधुर्योंजःप्रसादाख्यालय एव गुणाः । शृङ्गारकरणशान्तधर्मो माधुर्यम् । वीरबीभत्सरौद्ररस ओजः । सर्वसधर्मः प्रसादः । श्लेषादयस्त्वत्रैवान्तर्गताः । केचित् समतादयस्तु दोषाभावरूपा न गुणाः इत्याहुः ॥ ११ ॥ वैचित्र्यलक्षणं व्यासो निवहः प्रौढिरीचिती ।। शास्त्रान्तररहस्योक्तः सङ्ग्रहो दिक् प्रदर्शिता ।। १२ ।। वैचित्र्यमिति । वैचित्र्यलक्षणं वैच्छियज्ञापकमित्यर्थः । व्यासादयो जीर्णोका न गुणाः, किन्तु वैचित्र्यज्ञापका इत्याशयः । पदार्थस्य वाक्येनाभिधानं व्यासः । यथा- चन्द्रपदार्थस्य ‘अयनसमुत्थं ज्योतिरिति वाक्येनाभिधानम् । निर्वाहो वर्ण समता । अन्यार्थकपदेन लक्ष्यनिर्देशः प्रौढिः । यथा-'दृग्युग्मविपुला च सेति । अत्र इग्युरमे विपुला विस्तृतेत्यर्थ केन लक्ष्यानुष्टुप्छन्दोभेदविपुलाभिधानम् । औचिती कविसईत- प्रसिद्धया वर्णनम् । शास्त्रान्तररहस्योकिर्यथा- अवादि भैमी परिधाप्य कुण्डले वयस्ययाम्यामभितः समन्वयः । त्वदामनेन्दोः प्रियकामजन्मनि श्रयत्ययं दौधरी धुरं ध्रुवम् ।। अन्न 'उभयस्थितैर्दुरुधरा(१) इति दुरुधरायोग ज्योतिःशास्त्रे प्रसिद्धः । सङ्ग्रहः समासः, स पदेन वाक्यार्थाभिधानम् । यथा--निदाघशीतलहिसकालोष्णकुमार- शरीरावयवा योषिदिति वाक्याथें वक्तव्ये वरवर्णिनीति पदाभिधानम् । दिळू प्रदर्शिता, दिक्प्रदर्शन साभिप्रायोकिविन्यास इत्यर्थः । यथा-- मनस्तु ये नोज्झति जातु यात मनोरथः कण्ठपथं कथं सः ।। का नाम बाला द्विजराज-पाणिग्रहाभिलाषं कथयेदलज्जा ॥ अन्न चन्द्रपाणिग्रहाभिलाषतुल्यनलपाणिग्रहाभिलाष इति साभिप्रायोक्तिः । अन्न सरस्वतीकण्ठाभरणे चतुर्विशतिगुणाः इलेषादयो वाक्यनिष्ठा वाक्यार्थनष्ठा- -योकाः । उकाः शब्दगुणा वाक्ये चतुर्विंशतिरित्यमी ॥ अथैलानेव वाक्यार्थगुणत्वेन प्रचक्ष्महे । तेषां श्लेष इति प्रोकः सविधानं सुसूत्रता ॥ यत्तु प्राकट्यमर्यस्य प्रसादः सोऽभिधीयते ।। अवैषम्य क्रमवत समत्वमिति कीर्तितम् ॥ ( १ ) *रविवज्यूँ द्वादशगरनफा चन्द्राद् द्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञकोऽतोऽन्यः ॥ . इति पूर्णः श्लोकः स्वल्पजातके ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९०
दिखावट