पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- अन्न दातृतोत्क६प्रतीतेरिति दडी ॥ ९ ॥ । एवमष्टौ गुणानभिधाय वामनोदशगुणान्तर्गतकान्त्यर्थव्यक्त्योरन्यत्रान्तभावं दर्शयन्नष्टौ गुणान् दृढीकरोति- शृङ्गारे च प्रसादे च कान्त्यर्थव्याक्तसङ्ग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १० ॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयङ्गमम् ।। व्यतिरिक्त मलङ्कार प्रकृते भूषणं गिराम् ॥ ११ ॥ शृङ्गारे चेति । शृङ्गाररसान्तर्गतः कान्तिगुणः । अर्थव्यक्तिश्च प्रसादगुणान्तर्गते- त्यर्थः । कान्तिरज्ज्वलत्वम् । तच्च दीप्तरसत्वम् । अतो रसान्तर्गतेत्याशयः, “कान्तिः प्रसिद्धिविरोधाभाः । निषिद्धलाक्षणिकत्वरूपनेयार्थत्वाभावोऽर्थव्यक्तिः । आद्यं यथा- गृहाणि नाम तान्येव तपोराशिभंवादृशः । संभावयति यान्येव पावनैः पदपाँचभिः ॥ अनयोरनवद्याङ्गि ! स्तनयोर्जम्ममाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ इति । “अल्पं निर्मितमाकाशमनालोध्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ इति प्रत्युदाहरणम् । इयमतिशयोक्तिरिति केचित् । द्वितीयं यथा-'मही महा. वराहेण लोहितादुद्धृतोद्धेरिति । प्रत्युदाहरणं तु- भूरिभारभरोन्ममा कालेन हरिणोद्धृता । भूः खुरक्षुण्णनागाऽसृग्लोहितादुदधेरिह ॥ इति । अत्र नागलोहितपदयोरिति दण्डी । उपसंहरति-अभी इति । दशेति वामनमताभिप्रायेण । गुणालङ्कारविभाग सपादवलोकेनाह-पुंसीति । यथा शौर्य- कातरत्वादयो नियताः पुरुषधर्मास्तथा श्लेषादयो गुणाः काव्यधर्माः। तान् विना काव्यत्वं नास्तीत्याशयः । तिलकालङ्कारस्तु शरीरापेक्षया भिन्नः सकलवारीरशोभाजनको न तु शरीरधर्मः । एवमनुप्रासोपमादयोऽलारा इति भावः । यथा ब्रीणां प्रकृतेः ब्रीशरीरस्य तथा गिरी प्रकृतेः काव्यस्येत्यक्षरार्थः । एवं चे काव्यधर्मत्वं गुणत्वम्, काव्यशोभा- धायकत्वमलारत्वमिति भेदः । काव्यप्रकाश(कृत)स्तु-गुणा न काव्यधमः । स्वर्गप्राप्तिरलेनैव देहेन ववर्णिनी । अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥ इत्यादौ गुणाभावेऽपि विशेषोक्तिव्यतिरेकालङ्कारमात्रेण काव्यपदप्रयोगात् । अदावत्र प्रज्वलत्यग्निरुच्चैररित्यादावोजोगुणसत्वेऽपि तदप्रयोगाच्च । अतो रखधर्मत्वं