सामग्री पर जाएँ

पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयो मयूखः ।। | २७ वाच्यस्तत्परित्यागः । एतेन काव्यप्रकाशोकयोः सनियमानियमपरिवृत्तिदोषयो- रख्यत्रैवान्तर्भावः । अनियमः सामान्य सनियमो विशेषः तत्परिवृत्तिस्तत्यागः । तथा साकाङ्कदोषस्यापि न्यूनपदत्वेऽन्तर्भावः । तथा अनुपयुक्तस्थाने समर्पितार्थकत्वरूपा ऽपयुकत्वमपि व्याहतान्तर्गतमित्येते नोक्ताः ॥ ३६ ॥ द्वौ स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती । ध्वाङ्गाः सन्तश्च तनयं स्वं परं वा न जानते ।। ३७ ॥ सरोजनेत्र ! पुत्रस्य मुखेन्दुमवलोकय ।। पाळायष्यति ते गोत्रमसौ नरपुरन्दरः ॥ ३८ ॥ द्वाविति । सहचराचारुत्वं विरुद्धान्योन्यसम्बन्धश्चेति द्वौ दोषावित्यर्थः । सह- चति भावप्रधानो निर्देशः । अचारुसहिचर्यमित्यर्थः । तच्च स्तूयमानैतत्कृष्टैः सह निकृष्टस्य, निन्द्यमानैनिकृष्टैः सहोत्कृष्टस्य चैकक्रियान्वयः । ध्वाहा इति लक्ष्यम् । ध्वक्षिाः काकः । स्तूयमानैः सन्निः काकैः साहचर्यं निकृष्टसाहचर्यम् । यथा वा-- | दुष्टसङ्गेन दौःशील्यं विपत्तिव्यसनेन च ।। अपथ्यचर्यया व्याधिविद्याऽभ्यासेन वर्धते ।। | *अयमलङ्कारदोषेऽन्तर्गतः* (१)। विरुद्धसम्बन्धमुदाहरति-सरोजनेत्रेति । अयमेव प्रकाशितविरुद्ध इति काव्यप्रकाशोकिः । अन्न सरोजानामिन्दुसम्बन्धी विरुद्धः पुरन्दरस्य गोत्रपालनं च । अन्न विध्ययुकत्वमनुवादायुक्तत्वं च दोषद्वयमधिक मुकं काव्यप्रकाशे, सदविसृष्टविधेयांशाद्भग्नप्रक्रमाद्वा न भिन्नम् । अश्लीलत्वं च नार्थदोष इत्यङ्कृत्य नोकम् ॥ ३७-३८ ॥ पदे पदां वाक्यांशे वाक्ये वाक्यकदम्बके। यथावकाशमभ्युहेदोषान् शब्दांशसंश्रयान् ॥ ३९ ॥ पद इति । पदे सुबन्ततिङन्तादौ, पदांचे प्रत्ययादौ, वाक्यांशे समासे खण्ड. वाक्ये च, वाक्ये महावाक्ये, वाक्यकदम्बके प्रबन्ध, यथावकाशं यथासम्भव मित्यर्थः । श्रुतिकटुत्वं पदादिसर्वगतम् । व्युतसंस्कृतित्वासमर्थत्वनिरर्थकत्वानां पढ़: निष्ठत्वमेव । #वाक्ये शक्यभावेन अवाचकत्वमपि पदतदेकदेशनिष्ठभेच*(२)। क्लिष्टत्वं समासनिष्ठमेव । अविसृष्टविधेयांशत्वं विरुद्धमतिकृस्वमपि तथैव । 'न्यक्कारो शयमेव मे यदृश्यः' इत्यत्र वाक्यगतमविमृष्टविधेर्याशत्वम् । सङ्कीर्णत्वं तु वाक्यगतमेव । अस्थानस्थपदत्वं पदगतमेव *न वाक्यगतम् । दूरान्वयरूपस्य पदस्य पदे सङ्की ( १ ) *एतचिन्हातिं नास्ति इ-पुस्तके । (२) चिन्हाङ्कितोंऽशो नास्ति क-पुस्तके ।