राकागभसहिते चन्द्रालोके- अषण वाक्यान्तरप्रत्यायकत्वं दृषकताबीजम् । एष इति । ‘उदेतीत्यन्तेन समालो वाक्यार्थः । अम्बुधिबान्धव' इति विशेषणस्य विशेषाऽनाधायकस्यानुरोधेन विशेष्या- जुषङ्गात् । विशेषधायकत्वे तु न दोषः । अयमुदयति मुद्राभञ्जनः पद्मिनीना. मित्यादौ मुद्राभञ्जकत्वविशेषणस्य मानिनीमानखण्डनसमर्थत्वस्योदये विशेषरूपस्या- काङ्कितत्वात् ॥ २१ ॥ अन्तरपदापेक्ष क्रीडानृत्येषु सस्मितम् ।। मोघारम्भं स्तुमः शम्भुमधुरम्भोरुविग्रहम् ।। २२ ।। अर्धान्तरेति । द्वितीयाईघटकपदार्थ हेतुकप्रथमार्धवाक्यत्वम् । चरणेत्यपि बोध्य. म् । अस्य कविसम्प्रदायसिद्धवैरख्याधानेन दृषकता । अत एव द्वित्रिपदपाते न दोषः, तथैव सम्प्रदायात् । क्रीडति । अत्र पूर्वाधे 'सस्मितमित्यन्तविशेषणे 'मोघारम्भ मित्युत्तरार्धपठितल्यापेक्षणात् ॥ २२ ॥ अभवन्मतयोगः स्यान्न चेदभिमताऽन्वयः । येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३ ॥ अभचन्मतेति । अयोग्यतया निराकाङ्कतया च तात्पर्य विषयान्वयासम्भव त्यर्थः । येनेति । येनाम्बुधिब्द्धो यस्य वयमनुचराः तस्य रामपदृवाच्यस्यान्वयो sमिमतो न चेदित्यन्वयः । अत्र येन रामस्येत्यन्वयो भिन्नविभक्तिकत्वेन निरा. कास्वान्न सम्भवति । न च विभक्तौ लक्षणया विभकिव्यत्यासेन वान्वयः स्यादिति धाच्यम् । सुब्विभको लक्षणानङ्गीकारात् । तद्वयत्यासे यस्येति षष्ठयन्तेन रामस्थ पुनरवयायोगात् । अतोऽयमभवन्मतयोगः । यथा वा- स्वमेवसौन्दय स च रुविरतायाः परिचितः | कलाना सीमानं पुनरिह युवामेव भजथः । अपि द्वन्द्व दिष्टया तदिति सुभगे ! संवदति वा- मसः शेषं यत्स्याज्जितमिह तदान गुणितया ॥ अन्न यत्तदानपदयोरकालार्थककालार्थकयोरभेदान्वयो न सम्भवति, अयोग्य स्वात् । किन्तु यदित्यस्याकाङ्क्षापूरके तदिति, तदानीमित्यस्य तु यदेति आकाङ्गापुरकै स्यात् । न च तयोरध्याहारः । यत्तदानीमितिपद्यसत्वे तयोरन्वय एव तात्पर्य ग्रहात् । अन्यथा सर्वत्राध्याहारसम्भवादयोग्यवाक्योच्छेदापत्तिः । अतोऽपि विव- सिताम्वयासम्भवः । अन्न काव्यप्रकाशेनाऽनभिहितवाच्यतादूषणमुक्तम् । तन्न्यून- पदन्तर्गतमिति धिम्त्यम् । केचितु-अवश्यवक्तव्यानभिधायकपदाभिधानम् अन- मिहितवाच्यत्वम् , अवश्यवकध्याभिधायकपदानभिधानं न्यूनपदत्वमिति भेदमाः । तन्न, विनिगमकाभावेन वैपरीत्येनापि सुवचत्वात् । यथा वा- इदं यदि श्मापतिपुन्नि ! तत्वं पश्यामि तन्न स्वबिधेयमस्नुि ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६९
दिखावट