द्वितीयो मयूखः । जने यथेष्टम् ।' इति । अस्य बन्धवैरल्याधायकत्वेन दृषकता । तेन ‘तावदेव ऋषि रिन्द्रदिक्षुरित्यादौ तु बन्धवैरस्यानाधायकत्वान्न दूषणम् ॥ १६ ॥ इतवृत्तमनुक्तोऽपि च्छन्दोदोषश्चकास्ति चेत् । विशाळढोचने ! पश्याम्बरं तारातरङ्गितम् ॥ १७ ।। इतवृत्तमिति । शास्त्रीयदोषाभावेऽप्यश्रव्यतया प्रतिभासमानच्छन्दोदोषवत्वं रसा- ऽननुगुणच्छन्दोवस्त्वं चेत्यर्थः। ‘पश्याम्बरमित्यत्र छन्दोलक्षणाऽविरुद्धत्वेऽपि पूर्वस्वरेणणे- तरबारे काचिदश्रव्यता भवति । यथा वा- मल्लिकाकुलमडुण्डुभकेन सम्भ्रमावलयितेन कृतेन । आसनेऽकृत सचेतसि साक्षात्कुण्डलीन्द्रतनुकुण्डलभीजम् ॥ अन्नाद्यपादान्त्याक्षरे लघुत्वश्रवणेन । एवं हास्यरसानुगुणदोधकादिच्छन्दोवश्वं करुणदोषः ॥ १७ ॥ न्युनं त्वत्खङ्गसम्भूतयशःपुष्प नभस्तलम् । अधिकं भवतः शत्रून् दशल्यसिळताफणी ॥ १८ ॥ न्यूनमिति । अपेक्षिताकथने न्यूनमनपेक्षितकथनेऽधिकम् । उदाहरणयोर्यशसः पुष्पत्वे कथिते खड्गस्य छतात्वकथनमपेक्षितम्। उत्तरन्न लतात्वमनपेक्षितमिति ॥१८॥ कथितं पुनरुक्ता चाक् श्यामब्जश्यामलोचना । विकृतं दूरविकृतेरेयरुः कुञ्जराः पुरम् ॥ १९ ॥ कथितमिति । श्यामपदस्य पुनरुकत्वात् । यथा वा पैतामहः श्लोकः- दिनकरसवलब्धो दिनकरशर्मा तनूजाग्यः । दिनकर इवोगतेजा दिनकर इव नन्दनः स पानाम् ॥ विकृतमिति । दूरविझतेर्महतो धातुप्रत्ययविकारादुत्पन्नम् । जौहोत्यादिक त्वेन लुविकरणस्य 'ऋगता'वित्यस्य श्लौ द्वित्वे श्रदत्वे रेफलोपे 'अर्तिपिपत्यश्चे'. त्यभ्यासस्येत्वे अभ्यासस्थासवर्ण इतीय ि‘सिजभ्यस्तविदिभ्यश्चेति जुसि जुसि चेति गुणे आडागमे आटश्चेति वृद्धौ ऐयररिति लडि रूपम् । आपुरित्यर्थः ॥१९॥ पतत्प्रकर्ष त्यक्तानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥ २० ॥ पतदिति । आरम्भेऽङ्गीकृतस्यानुप्रासल्य यमकस्य वा त्यागः ॥ २० ॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदत्यम्बुधिबान्धवः ॥ २१ ॥ समातेति । समाप्तेऽन्वये विशेषानाधायकविशेषणश्रवणम् । तदनुरोधेन विशेष्या
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६८
दिखावट