पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयो मयूखेः ।

  • -*

-*-*-*- दस्याभावः क्लिष्टत्वं, समत्वाभावः पतत्प्रकर्षत्वं, श्लेषाभावो विसन्धित्व, समाधि भावोऽपुष्टत्वम्, अर्थव्यरभावः प्रसिद्धिविद्याविरोधः, उदारत्वाभावो व्याहत्रत्वम् । अविमृष्टविधेयांशत्वादीनामप्यर्थव्ययभावरूपत्वादू गुणाभावत्वमेव दोपत्वम् ।। तदुक्तं वामनेन- यो हेतुः काव्यशोभायाः सोऽलङ्कारो निगद्यते । | गुणोऽपि तादृशो ज्ञेयो दोषः स्यात्तद्विपर्ययः ।। इति । अतः काव्यशोभाहेतुगुणाभावत्वमेव दोषत्वमित्याह । काव्यप्रकाशा- यस्तु विनिगमकाभावार्थसावबोधजनकत्वं गुणत्वै तत्प्रतिबन्धकत्वं च दोषत्व- मित्याहुः ॥१॥ दोषानाह- भवेच्छतिकटुवर्णः श्रवणोद्वेजने पहुः । संविद्वते व्याकरणविरुद्धं च्युतसंस्कृति ।। २ ।। भवेदिति । श्रुतिकटुत्वं कठिनवर्णत्वम् । तच्च शब्दश्रवणोत्तरार्थावगमप्राक्कालीन दुःखविशेषजनकशब्दत्वमित्यर्थः । लक्षणकथनव्याजेनोदाहरणमप्युकं भवेच्छतिरिति । संविद्रत इति । जानन्तीत्यर्थः । वेत्तेर्विभाषेति रुडागमः । इदं च ‘अकर्मास्यनु- वृत्तौ समो गम्युच्छीतिसूत्रेण सम्पूर्वकात् विदेरकर्मकादात्मनेपदविधानेन सकर्मकस्य सम्पूर्वस्य विदेरात्मनेपदनिषेधलक्ष्यमपि । यथा वा- इति द्विकृत्वः शुचिमिष्टभोजिन दिनानि तेषां कतिचिन्मुदा ययुः । द्विरष्टवषधिक( संवत्सर )वारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुष निशि ॥ | अन्न 'हुति द्विकृत्व' इति कृत्वसुच्प्रत्ययो ‘द्वित्रिचतुभ्यः सजिति सुत्रेणापादितो व्याकरणविरुद्धः । यथा वा- स्वर्णकेतकपरागगौरताऽहड्कृतिद्विरदनाङ्कुशकान्ते ! ।। |वाजचन्द्र ! मदनद्विपगर्मास्त्वां दरेण ललना बहुधैक्षन(१) ॥ अत्र ‘ऐक्षन्निति परस्मैपदम् । न चाऽनुदात्तेतोऽपि चक्षिो त्किरणसामथ्र्या. दात्मनेपदस्यानित्यत्वम् । एवं च- तम समारोप्य पडुरुहाको निरीक्षं निरीक्षं स सस्मार सारम् । निदिध्यासतो मे यदध्याविरासीत्तदेतत्पदं धाम रामाभिधानम् ॥ इत्यन्न शतृ प्रयोगः । अन्यथा शानजापत्तिरिति वाच्यम् । परिभाषाया अनित्यता. वशेन स्वयं प्रयोगकरणात् । आरोपे सतीति नयेन सिद्धप्रयोगोपपादकतया परि. भाषायाः प्रयोगप्रयोजकत्वाभावात् । अनुदात्तेतश्चश्चिडो लित्करणसामथ्र्यकृतात्मने. (१) रथेद्धतास्वागतयोमेलनादुपजातिरियम् । उपजातिभेद्यायम् ‘हत्थे किलान्यास्वपि मिश्रिताछ स्मरन्ति जातिष्विदमेव नामः इत्युक्त्या कैश्चित्कल्प्यते ।