पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमो मयूखः । विशेषमान्नपरत्वेऽन्यतरधर्मत्यागेनै कदेशे लक्षणा योगरूडाङ्गीकारेऽपि तुल्या, तथापि शक्यतावच्छेदकाऽननुप्रविष्टधर्मेण लक्षणापेक्षया तदनुप्रविष्टधर्मेण लक्षणा लवीयसी । लाघवं च तेन रूपेणान्वयमात्रकल्पनै न तु स्मरणमपीति हृदयम् । एवं च सामान्य विशेषरूपयोरन्योन्यत्याग इत्यपि बोध्यम् । एतेन पङ्कजादिपदानामपि यौगिकत्वमेव । पङ्कजपदादवयवशक्त्या पङ्कजनिकर्तृत्वमान्नप्रकारकबोधेन पद्मल्वप्रकारकबोधाभावाद । में चैवं पङ्कजपदाकुमुदभेकादिविशेष्यकपङ्कजनिकर्तृत्वप्रकारकबोधापत्तिरिति वाच्यम् । पूर्वतरप्रयोगत्वप्रकारकज्ञानस्य पद्मविशेष्यककर्मपूर्वतरप्रयोगत्वप्रकारज्ञानस्य वा तत्पदजन्यशाब्दबोधे हेतुत्वाङ्गीकारात् । यद्वा पङ्कजनिकर्तृत्वनिष्ठप्रकारतानिरूपित विशेष्यतासम्बन्धेन पङ्कजपदावयवशकिग्रहजन्यशाब्दबोधं प्रति समवायसम्बन्धेन पद्मत्वस्य पद्ममात्रवृत्तिविषयतासम्बन्धेन ज्ञानस्यैध वा हेतुत्वाङ्गीकारान्नोका. ऽतिप्रसङ्गो न वा भाविविनष्टपद्मबोधानुपपत्तिः । एवं च सत्यपि, यदि क्वचित्पन्ना न्यविशेष्यकोऽपि बोधो यदि वा पद्मत्वप्रकारकबोधोऽव्यानुभविकस्तदा तत्र लक्षणथै- वोपपादनीय इत्युदयनाचार्योंकिरपास्ता । अतो वृस्यन्तरमेव युक्तम् । केचित्त- योगेन रूढ्या चार्थद्वयप्रत्यायको यौगिकरूढः । यथा मण्डपशब्दो योगेन मण्डपानकर्तृ- प्रत्यायको रूढ्या च गृहप्रत्यायक इति पदचातुर्विध्यमाहुः । तत्तु वृत्तिभेदपूर्वकार्थभेदेन पदभेदाङ्गीकारात् 'सुवर्णस्य सुवर्णख्येत्यादिप्रयोगदर्शनात् सकलकत्वमितिवत्सकृय प्रयुक्तस्य तादृशपदान्तरस्मरणेनार्थान्तरप्रत्यायकत्वादुपेक्षितम् ॥ १२ ॥ पदवाक्ये लक्ष्यति- विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः ॥ १३ ॥ युक्तार्थानां तां च विना खण्डवाक्यं स इष्यते । विभक्त्यन्तमिति । साधु पदमित्यर्थः । पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेः । साधुत्वं चाऽनादिवृत्तिप्रमाप्रयोज्यार्थप्रतिपादकत्वम् । तेन भाषाशब्देऽनादिशक्त्य: भावाच्छयार्थाभावेन लक्षणाप्रमासम्भवान्न साधुत्वम् , लाक्षणिकगङ्गादिपदे च न क्षतिः । आधुनिकसङ्केतितडित्थादिपदेषु पाणिनिसङ्केतितवृद्धयादिपदेषु च 'पिता नाम कुर्यादिति विधिना पुन्नत्वनामत्वोपाधिना व्याकृती वाक् उत्पद्यते इति विधिमा व्याकरणोपाधिना चाऽनादिवृत्तिप्रमासम्भवात्साधुत्वम् । वृत्तिश्चमेणार्थप्रत्यायकत्व मसाधुत्वम् । यथा भाषाशब्दाना मिति केचित् । राणकस्तु पौरुषेयसङ्केतविरहविशि. त्वं साधुत्वम्, व्याकरणसङ्केतितानामसाधुत्वमिष्टमेवेत्याह । वाक्यमिति । तेषां पदानां व्यूहः समूहः अर्थसमाहितः, समासार्थनिराकाङ्क्ष इति यावत् । तेन विशिष्टैकार्थ- प्रतिपादकनिराकाङ्क्षपदसमूहो वाक्यमिति फलितम् । एकार्थत्वं च भिन्नप्रतीतिविषया- नेकमुख्यविशेष्यराहित्यम् । तेनाख्यातभेदेऽप्येकाख्यातार्थभावनादेरपराख्याता प्रका- ता। यथा यो घटस्तिष्ठति तमानय’ ‘पश्य मृगो धावति' इत्यादौ, तत्रैकैकवाक्यत्वम् ।