पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कागमसहिते चन्द्रालोके-- एतेन ‘सुपतिड्चयो वाक्यःमिति लक्षणमपास्तम् । खण्डवाक्यं लक्षयति-युक्तार्थाना मिति । सम्बद्धार्थप्रतिपादकानाम् । तां च विनेति । अर्थसमाप्ति विनेत्यर्थः । यथा “यो गौरस्ति तमाहरेत्यादिराकाङ्क्षाविशिष्टार्थबोधकपसमूहः खण्डवाक्यमित्याशयः। आकाङ्क्षा च तद्यतिरेकप्रयुकान्वयाऽननुभावकत्वरूपा । इदमुपलक्षणं योग्यताऽऽस- त्योः। योग्यता चैकपदार्थसंसर्गेऽपरपदार्थ निष्ठात्यन्ताभावप्रतियोगित्वाभावः । अव्य. वधानेनान्वयप्रतियोग्युपस्थितिरासत्तिः । अन्वयप्रतियोग्युपस्थापकपदाव्यवधान वाऽऽसत्तिः । तेनैकपदोपस्थाप्ययोनसत्तिः । एकपदोपस्थित्यव्यवधानेनापरपदो पस्थितियतामिति तात्पर्यमासत्तिः । अनयैव योजनया ईदृशतात्पर्यज्ञानादन्वय बोधः । वक्त्रभिप्रायविरोधान्यत्वं च तात्पर्यविशेषणम् । तेन ‘नीलो घटो द्रव्यं पट इत्यादौ यत्रे वक्तनलपदवटपदयोव्र्यवधाने तात्पर्ये श्रोतुस्तु नीलधटपदयोस्तद्ग्रहाद् बोधस्वत्रेश्वरतात्पर्येण तात्पर्यभ्रमेण वा बोधः । शुकवाक्येऽप्येवम् । वाक्ययोरेक वाक्यतास्थले आन्तरालिकपदार्थोपस्थितेने व्यवधायकत्वमिति मिश्राः । तत्राकाङ्ग्रा योग्यतयज्ञानं कारणम् , आसत्तिश्च स्वरूपसती कारणमिति जीण, नव्यनैया- यिकमीमांसकश्चि-न योग्यताज्ञानस्य कारणवा, किन्तु वहिना सिञ्चे'दित्यादौ बोधादर्शनेनाऽयोग्यतानिश्चयः प्रतिबन्धकः । स चानुमित्यादिसाधारण्येनैव ऋसप्रति बन्धकीभूतबाधज्ञानत्वादिनैव शाब्दबोधेऽपि प्रतिबन्धकः, न तु भिन्न प्रतिबन्धकः । तेन न ‘वक्षिनेत्यादौ बोधः । किञ्च योग्यतायाः सर्वत्रैयासम्भवाद्विशिष्य हेतुहेतुम- ज्ञावावश्यकत्वेन वह्निनेत्यादौ तादृशशाब्दबोधाप्रसिद्ध्या हेतुत्वकल्पना न सम्भ वति । अतो न योग्यताज्ञानं कारणं किन्त्वयोग्यतानिश्चयः प्रतिबन्धक इत्याहुः । आलङ्कारिकास्वाहुः-- न शाब्दबोधे योग्यताज्ञानं हेतुर्नाप्ययोग्यतानिश्चयः प्रति. बन्धकः । तदभावे तत्सत्वेऽपि चन्द्रो मुखमित्यादिरूपकादिबोधोदयात् । 'एष वन्ध्या सुतो याति खपुष्पकृतशेखरइत्यादिश्लोकार्थबोधेन चमत्कारातिशयानुभवाच्च । न च तन्न पदार्थस्मरणमान्नं न शाब्दबोध इति वाच्यम् । 'घटमानयेण्यादावपि तथा वक्ते शक्यतया शाब्दबोधमत्रोच्छेदापत्तैः । किन्तु बाधनिश्चयस्य शाब्दान्यत्वमेव प्रति- बध्यम् । न चैवं प्रवृत्याद्यापत्तिः । प्राक्तनबाधेनाऽप्रामाण्यशाया एवं जायमानज्ञाने जननादप्रामाण्यशङ्काशुन्यज्ञानस्य प्रवृत्ति प्रति हेतुतया तदभावेन प्रवृत्यापादना. सम्भवात् । तदुक्तं खण्डने-‘अत्यन्तासत्यपि ह्यर्थे ज्ञान शब्दः शब्दः करोति हिर इति । वस्तुतस्तु चन्द्रो मुख'मित्यादिवाक्येन पामराणां बोधानुइयादालङ्कारिकाणा- मेव बोधोदयाञ्चमत्कारविशेषोदयाच वासना विशेष एवोत्तेजको वाच्यः । एवं चोत्तेजका- भावविशिष्टबाधनिश्चयाभावस्य हेतुत्वं न युक्तमुत्पश्यामः । अत्र वाक्याद्वाक्यार्थबोधो- दयादर्य क्रमः । क्रमिकोच्चारितपदजन्यपदार्थोपस्थित्युत्तरं सर्वेषां पदानां समूहालम्बन रूपा मानसोपस्थितिः । तज्जन्यसमहालम्बनरूपपदार्थोपस्थितौ तेषां संसर्गरूप: वाक्यार्थज्ञानम् । अन्यथोत्तरपदार्थोपस्थित्या पूर्वपदार्थोपस्थितिनाशाच्छाब्दबोधो न