प्रथम मयूखः ।
. यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- | स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि, तथापि तत्र सुरतव्यापारलीलाविधौ | रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । इत्यादौ विभावनादयोऽर्थालङ्कारा ‘हरो वर इत्यादौ शब्दालङ्काराश्च स्फुटा एव । अलङ्कारव्यञ्जकेऽप्यलङ्कारस्य स्फुटत्वमेव । तेनालङ्काररहितस्य न काव्यत्व मिति भावः । केचित्तु-श्रवणमात्रद्वारा सुखविशेषसाधनं वाक्य काव्यम् । अदृष्ट. द्वारकसुखसाधनवेदवाक्यवारणाय श्रवणमान्नद्वारेति । तेन २सालङ्कारादिरहितेऽपि काव्यत्वमस्त्येवेत्याहुः ॥ ८ ॥ काव्यत्वस्य वाक्यनिष्ठत्वेन तद्धटकशब्दभेदानाह- विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते । रूढयौगिकतन्मित्रैः प्रभेदैः स पुनस्विधा ।। ९ ।। विभक्तीति । सुपूतिङ्प्रत्ययोत्पत्तियोग्यः प्रकृतिभागः शास्त्रीयः साधुः शब्दः ।। स त्रेधा, रूढो यौगिको योगरूढश्च । समुदायशक्त्यार्थप्रत्यायको रूढः । अवयव शक्त्यार्थप्रत्यायको यौगिकः । अवयवशक्त्या समुदायशक्त्या चार्थप्रत्यायको योगः रूढः। एतेन-सर्वे शब्दो यौगिका' इत्यपास्तम् । योगस्याऽनुपलभ्यमानत्वात् । यथा- कथञ्चिद्योगकल्पनेऽपि तज्ज्ञानं विनैवार्थप्रतीतेः कृतं योगेन । यत्तु-सर्वेषां यौगिकत्वे कृत्तद्धितसमासाश्चेत्यनेनैव सर्वेषां प्रातिपदिकसंज्ञासिद्धौ ‘अर्थवदधातुरप्रत्ययः प्राति. पदिकमितिसूत्रारम्भानुपपत्तिरिति, तन्न । पूर्वनिपातितेषदसमाप्त्यर्थकबहुचूप्रत्यय युकबहुपटुशब्दस्य प्रातिपदिकसंज्ञार्थतया तत्सार्थक्यात् । तन्न तद्धितान्तत्वाभादेन तत्संज्ञायाः कृत्तद्धितसूत्रेणाऽलाभात् । तद्धितयोगमात्रविवक्षायां पचतकी'त्यत्राऽकच- प्रत्यययुक्तेऽपि तदापतेः । केचित्तु-अर्थवत्सून्त्रैण समासादीनामपि प्रातिपदिकसंज्ञा- सिद्धानर्थकसमासानां शशशृङ्गखपुष्पादीनां प्रातिपदिकसैज्ञासियर्थं कृत्तद्धितसूत्र मित्याहुः । अन्ये तु-अर्थवत्सूत्रेण वाक्यसमासयोरपि संज्ञाप्राप्त ऋत्सूत्रेण समासेषु पुनः संज्ञाकरण वाक्यपरिसंख्यार्थमित्याहुः । एतेनैव-सवे सर्वार्थवाचका' इत्यपा- स्तम् । सर्वत्र रूढियेंगो वा न सम्भवतीति वृत्त्यभावेन सर्वार्थवाचकत्वासम्भवात् । बोधकत्वं चेल्लाक्षणिकादिसाधारणं न कस्याप्यनिष्टमिति दिक् ॥ ९ ॥ रूढस्य भेदत्रयमाह- अव्यक्तयोगनियोंगयोगाभासैख्रिधाऽऽदिमः । ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १० ॥ अव्यक्तयोगेति । सम्भववयवाथननुसन्धानेऽपि समुदायशक्त्यार्थप्रत्यायक. त्वमव्ययोगत्वम्, अवयवार्थाभावी निर्योगत्वम्, तात्पर्यविषयेऽनन्वितावयवार्थत्वं