पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- काव्यस्वरूपमाह- निर्दोषा लक्षणवती सरीतिरिणभूषणा । सालङ्काररसाऽनेकवृत्तिवक् काव्यनामभाक् ॥ ७ ॥ निषेति । दोषाः शाब्दबोधरसोऽवबोधप्रतिबन्धकाः च्युतसँस्कृतिक्लिष्ट- प्रतिकूलवर्णत्वादयः, तदभावो विवक्षितो न दोषसामान्याभावः । केषाञ्चिदोषाणां काव्यापकर्षकत्वेऽपि काव्यत्वविघातकत्वाभावात् । अत एव- कृतमञ्चमतं दृष्टं वा यैरिदं गुरु पातकं | मनुजपशुभिर्निर्मदैर्भवद्भिदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना: मयमहमसृङ्मेदोमासैः करोमि दिशां बलिम् ॥ इत्यादिषु पुनरुक्तदोषेऽपि रौद्ररसध्वनिरिति केचित् । अन्ये तु-एकत्रैव पद्ये दोषवदवयवावच्छेदेनाऽकाव्यत्वम् अन्यावच्छेदेन काव्यत्वमित्याहुः । अक्षरसंहतिशोभादि- वक्ष्यमाणलक्षणानि । पाञ्चाली गौडी वैदर्भीति रीतयः । श्लेषप्रसादादयो गुणाः । एते च शब्दधम' इति केचित् । रसभावताभासभावशान्तिभावोदयभावसन्धिभावशब- लत्वादिधर्मा एवैते । *गुणवृत्या पुस्तेषां वृत्तिः शब्दार्थयोर्मता ।। इति काव्य- प्रकाशः । उपमादयोऽलङ्काराः । शृङ्गारादयो रसाः । इदं च भावानामुपलक्षणम् । तेन ‘अद्रावत्र प्रज्वलत्यग्निरुच्चरित्यादौ न काव्यत्वम् । मधुरा प्रौढा पक्षा ललिता भद्रेति वृत्तयः । शकिलक्षणाव्यञ्जनारूपवृत्तित्रयं च । संयुक्त वाक शब्दः स काव्यमित्यर्थः । तेन विशिष्टशब्दनिष्ठमेव कादयत्वम् । 'काव्यं करोतीति प्रयोगस्य तन्नव दर्शनात् । केचित्तु-यत्र शाब्दी व्यञ्जना शब्दालङ्कारो वा तत्र शब्दशकिमलेऽर्थस्य विशेषणत्वेनार्थविशिष्टशब्दस्य, यन्नाऽऽर्थी व्यञ्जनालारो वा तत्र शब्दविशिष्टार्थस्य काव्यत्वम् । अत उभयनिष्ठं काव्यत्यमित्याहुः । अन्ये तु- व्यासज्यवृत्ति काव्यत्वम् । व्यासज्यवृत्तिधर्मज्ञाने यावदाश्रयविषयकज्ञानस्य हेतुतया अर्थाऽविषयकज्ञानेनापि तद्ग्रहसम्भवत् संयोगप्रत्यक्षे यावदायगुणप्रत्यक्ष वा तस्य हेतुत्वादित्याहुः । केचित्तु-भाषाश्लोकादौ च्युतसँस्कृतिस्वादिदोषसत्वेन निर्दोषत्वा- भावेऽपि काव्यपदप्रयोगाग्निर्दोषादिकमपि न विशेषणम्, किन्तूपलक्षणमित्याहुः ॥ ७ ॥ प्राचीनोकिमुपहासेन दूषयति-- अङ्गीकरोति यः काव्यं शब्दावनलकृती । असौ न मन्यते कस्मादनुष्णमनळे कृती ॥ ८ ॥ अङ्गीकरोतीति । अलङ्काररहितयोः शब्दार्थयोः काव्यत्वाङ्गीकारे औष्ण्यरहि- तस्याऽप्यग्नित्वाङ्गीकारो युक्तः स्यादित्युपहासार्थः । अलङ्काराविसमनियतमेव काव्य त्वमिति भावः ।।