पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीगणेशाय नमः ॥ 2: चन्द्रालोकः :- गागाभट्टकृत-राकागम-टीकासहितः । अधिसरयू(तटिनी)तटमधिसाकेताङ्गणमधितदुथानम् । खेलन् नीरदनीलो बालो मे मानसे सदा भूयात् ॥ अनेकैः क्लैशैर्यन्न परिचितमद्यापि गहने परीहासस्तस्मिन्मम भवति यत्नस्य, तदपि ।। यशोदाकौशल्यातनयपदभावाहितमनः- प्रसादः केशानां फलति फलमत्युत्कटमपि ॥ सुनोर्दिनकरस्यैषा गागाभट्टमनीषिणः । चन्द्रालोकस्य विवृतौ कृतिरस्तु सतां मुदे ॥ कागमेनाऽवदातो रसिकानन्दकारणम् । चन्द्रालोकनिबन्धोऽयं चन्द्रालोक इवापरः ॥ विन्नविघाताये कृतं समुचितेष्टदेवतास्मरणरूप मङ्गलं शिष्यशिक्षायै व्याख्या श्रोतृणामनुषङ्गतो मङ्गलाय च निबध्नाति-- उच्चैरस्यति मन्दतामरसतां जाग्रत्कलकैरव- ध्वंसं इस्तयते च या सुमनसामुल्लासिनी मानसे । दुष्टोद्यन्मदनाशनार्चिरमला लोकत्रयदर्शिका सा नेत्रत्रियीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १ ॥ उश्चैरिति । खण्डपरशोर्महादेवस्य सूर्यचन्द्राग्निरूपनेत्रत्रितयीव वाग्देवता दीव्यतु सर्वोत्कर्षेण वर्तता क्रीडत, मोदतां वा । नेत्रपक्षे मन्दानि निष्प्रभाणि तामरसानि कम लानि तेषां भावमुञ्चैरस्यति दूरीकरोति । कमलनिष्ठां मन्दतां दूरीकरोतीत्यर्थः । सूर्यस्य पद्मविकासकत्वादिति भावः । जाग्रत्यः स्फुरन्त्यः कला यस्मिन्कर्मणि, कैरवध्वंसं कुमुद नाशं हस्तयते । ‘हस्तान्निरसने इति वार्तिकाण्णिन् । निरस्यति दूरीकरोति । चन्द्रस्य तद्विकासकत्वात् । सुमनसा देवानाम्, सकलदेवानां शम्भुपूजकत्वात् अमृतभक्षकत्वाच्च।