पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके दुष्ट उद्यन् मदनः कामस्तमश्नाति तादृशमचिः । अग्निरूपनेत्रस्य मदनदाहकत्वात् । वाग्देवतापक्षे मन्दतां मूर्खताम् अरसता रसाभावमुच्चैरस्यति दूरीकरोति । जाग्रत्कलकै प्रकटदोषः यो रवध्वंसो वचनाभावरूतमपाकरोति । सुमनसा पण्डिताना दुछ उयन् यो मदः तन्नाशनेर्विज्वले लोकत्रयीदेशिका त्रिलोकीवर्णनक्षमेति ॥ १ ॥ कीर्तये स्वस्य ग्रन्थस्य नाम निबध्नाति- हेहो ? चिन्मयचित्तचन्द्रमणयः ! संवर्धयध्वं रसानु रेरे ! स्वैरिण! निर्विचारकविते ! मा स्म प्रकाशीभवः । उल्लासाय विचारवीचिनिचयालङ्कारवानिधे । श्चन्द्राळोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ २ ॥ होहो इति । होहो इति सम्बुद्धौ । चिन्मयाः ज्ञानप्रचुरा ज्ञानरूपा वा, चित्तस्य ज्ञानरूपत्वाव, ज्ञानशालिनो वा, चित्तचन्द्रमणयः मनोरूपचन्द्रकान्ताः ! रसान् नवरसान् जळानि वा संवर्धयध्वं वृद्धि प्रापयध्वम् । निर्विचारकविते ! स्वैरिणि ! सकलजनसाधारणे १ मा स्म प्रकाशीभवः प्रकटीभवः । स्मोत्तरे लडू चेति लङ । यद्वा ‘माऽस्मत्प्रकाशीभवेति पाठः । तत्राऽस्मदिति पञ्चमी । अस्मद् अस्मत्तः । स्वकविताय निविचारतायाः स्वभावेनाऽविद्यमानत्वादभूततद्भावे किंवः । यतः, पीयूषवर्षनामा कविः विचाररूपतरङ्गसमुदायो यास ताशालारवारी जलानां निधेः समुद्रस्योल्लासाय वृद्धये चन्द्रालोकनामाने ग्रन्थं वितनुते विस्तारयति । चन्द्रालोके चन्द्रमणीमा क्षरणात् अभिसारिकागत्यभावाच ॥ २ ॥ पण्डितप्रवृत्त्यर्थं ग्रन्थप्रयोजनमाह- युक्त्यास्वाञ्चलसदसैकवसतिः साहित्यसारस्वत- क्षराम्भोधिरगाधतामुपदधत् सेव्यः समाश्रयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जग- उजाग्रद्धासुरपझकेसरयशःशीतांशुरस्माद् बुधाः ! ॥३॥ युक्यास्वाद्येति । युकिशास्वाथलसदसश्च तयोरेका वसतिः स्थानम् । अन्यत्री ऽलङ्कारग्रन्थे युक्तिनास्तीति भावः । यद्वा युक्त्येति तृतीयान्तम् , आस्वाद्येति ल्यबन्तं क्रियान्वितम् । साहित्यसम्बन्धि सारस्वतं वाङ्मयं तदेव क्षीरं तस्य समुदः, अगाधता गाम्भीर्यम् उपदधत् । ग्रन्थान्तरापेक्षयात्र गाम्भीर्यम् । सेव्यः शनैर्गन्तुं पक्षे बोद्ध योग्यः चर्वणास्वाथः समाश्रीयताम्, अध्ययनाध्यापनावलोकनादिना । श्रीरिति । भवतीति सईऽध्याहारः । उपदेशकौशलरूपममृतम् । अन्नाऽमृतपदेन प्रभुसमितछहृत्संमित- कान्तासंमितोपदेशत्रैविध्येऽप्युदेशद्वयस्य शब्दार्थप्रधानतयाऽऽस्वादाविषयत्वात्कान्ताः संमितोपदेशस्य रसप्रधानतयाऽऽस्वादविषयत्वादमृततुल्यतया तृतीयोपदेशो व्यज्यते ।