अष्टम मयूखः । व्यअनावृत्तिनिरूपगोपस्थितव्यङ्ग्यभेदेन व्यञ्जकध्वनिभेद निरूप्य तत्प्रसङ्गेन वनिगुणीभूतव्यङ्ग्यलक्षणपूर्व मध्यमकाव्यभेदानाह- यदुव्यज्यमानं मनसः स्तमित्याय स नो ध्वनिः । अन्यथा तु गुणीभूतव्यङ्ग्यमापतति त्रिधा ।। १ ॥ यदिति । येन काव्येन व्यज्यमानं व्यञ्जनया प्रत्यायितं व्यङ्गय मनसः स्तमित्याय आर्द्रभावाय भवति । 'स्तिन आभावः इति धातुः । अभयवाद् ध्वनिः । इदमुपलक्षण विस्तारादीनां तज्ञ्जनकं भवति । आह्वाइजनकमिति यावत् । स इति विशेषेण निर्देशः । तत्काव्यं ध्वनिः उत्तमकाव्यम् । विशेष्याभिप्रार्य पुंलिङ्गम् । यन्न इयङ्गवं वाच्यार्थापेक्षया चमत्कारजनके स ध्वनिः । अन्यथा व्ययस्य चम कारजनकस्वाभावे गुणीभूतव्यङ्ग्यरूपं मध्यमकाव्यं वक्ष्यमाणभेदैविधेत्यर्थः । सल्य भेदाः पूर्वमुक्ताः । अयमाशयः-सव्यङ्ग्यमेव काव्यम् , न व्यङ्गयरहितम् । तद्वय प्राधान्येन प्रतीयत वस्त्वादिगुगत्वेन वा प्रतीयतामित्यन्न नाग्रहः । परन्तु यत्र चमत्कारजनकमपि रसादिव्यङ्ग्यं प्रकरणाद्यनुरोधेन वस्त्वादिगुणत्वेन प्रतीयते, तत्र चमत्कारस्याऽस्थायितया अनास्वाद्यत्वेन मध्यमकाव्यत्वम् । यथा-- मुदतीजनमज्जनापितैर्धसणैर्यत्र कषाविताशयः । न निशाऽखिलयापि वापिका प्रसाद अहिलेव मानिनी ॥ • इत्यादौ रसादेनेगरीवृत्तान्तवस्तुमान्नेऽङ्गम् । यत्र तु प्रधानभूतं, तन्नोत्तम काव्यत्वम् । यथा वक्ष्यते । तदुकम्- प्रधानगुणभावाभ्यां व्यङ्ग्यस्यवं व्यवस्थिते । उभे काव्ये, तदन्यद्यत् तच्चित्रमभिधीयते ॥ इति । काव्यप्रकाशस्तु-सव्ययमेव काव्यमिति ने नियमः । अध्यङ्गधेऽपि काव्यव्यवहारात् । अतोऽव्यङ्ग्यचित्रादीनामपि काव्यतयोत्तममध्यमाधमभेदेन त्रिविधं काव्यमित्याह । चण्डीदासस्तु-उत्तमाधमभेदेन काव्यं द्विविधम् । प्रकरणाद्यनु रोधेनेतराङ्गत्वेन प्रतीयमानस्यापि रसादेव्यङ्ग्यस्य पूर्वमास्वाद्यत्वेन प्रतीतस्य बाधा ऽयोगादित्याह । उत्तम यथा-- कल्याश्चिद् गुणिना चिरं हृदि सता त्वक्षसः सङ्घमात् पाटीद्रवपङ्किलस्य झटिति स्वीयो विमुको गुणः । तच्चिन्नं विगुणेन तेन भवतः सर्वेऽपि ते ते गुणाः श्रीमद्वाजबहादुरेन्द्र ! भवतः स्पष्टीक्रियन्तेऽधुना ॥ | अन्न खडितावाक्ये त्वदूदयचन्दनावलग्नारमणिबिम्बमालया व्यज्यमानसम्भो-
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२००
दिखावट